________________
काव्यमाला।
ध्वन्यते । चञ्चल आम्राकुरो यस्मिन् । करे कम्पितः । मारणोद्यमादिति भावः। खजो येन तस्मिन्सर इव त्वयि भ्रमति सति । ज्ञापनार्थमिति भावः । सा सुतनुः । एवं चोपेक्षानहत्वं ध्वन्यते। मूञ्छिता । एवं चैतस्या अतिदुःखं जातमिति व्यज्यते। तेन चायमपराधः क्षन्तव्य इति ॥ कुलवत्याः सुरते गोत्रस्खलनमनुचितं तवेति वादिनी सखीं नायको वक्ति
कौलीन्यादलमेनां भजामि न कुलं सरः प्रमाणयति ।
तद्भावनेन भजतो मम गोत्रस्खलनमनिवार्यम् ॥ १९१ ॥ कौलीन्यादिति । अलमत्यर्थ कौलीन्याकुलीनत्वात् । 'कौलीनात्' इति पाठे तु कोलीनालोकवादात् । 'स्यात्कौलीनं लोकवादे' इत्यमरः । एनां भजामि । एतस्याः परित्यागेऽत्यन्तलोकनिन्दामीतिरिति भावः । स्मरः कुलं न प्रमाणयति । एवं च सगुणत्वमपेक्षितमिति भावः । तस्या भावनया सेयमिति बुद्ध्या भजतः। एनामिति भावः । मम नामस्खलनम् । 'गोत्रं नानि कुलेऽपि च' इति विश्वः । निवारयितुमशक्यम्। कस्याश्चिनायिकायाः पतिमवलोक्य मीतं कंचन नायकं दूती वति
कुत इह कुरङ्गशावक केदारे कलममञ्जरीं त्यजसि ।
तृणबाणस्तृणधन्वा तृणघटितः कपटपुरुषोऽयम् ॥ १९२ ॥ ' कुत इति । हे कुरङ्गशावक । शावकपदेनाज्ञत्वं व्यज्यते । तेन च भीतियोग्यत्वम् । इह केदारे शालिमारी कुतस्त्यजसि । नन्वत्रास्ति रक्षक इत्यत्राहतृणरूपो बाणो यस्य, तृणरूपधनुष्मान् , तृणविहितो मिथ्यापुरुषः । एवं चाक्षमादरसाद्भीतिमपहाय यथेच्छं त्वमत्रागच्छति द्योत्सते । यद्वा नायं पुरुषः किं तु तद्वेषधारीति भयमपास्य त्वमत्रागच्छेति ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गथार्थदीपनया समेता ककारव्रज्या ।
खकारव्रज्या। सन्मैत्री स्खौति
खलसख्यं प्रामधुरं वयोऽन्तराले निदाघदिनमन्ते ।
एकादिमध्यपरिणतिरमणीया साधुजनमैत्री ॥ १९३ ।। सलसत्यमिति । प्राक्प्रथमतः । अन्तराले मध्ये वयः । तारुण्यमित्यर्थः ।