________________
आर्यासतशती।
अन्ते.सायं प्रीष्मदिनम् । मधुरं मनोहारि । एका । नान्यदेतत्सममिति भावः । एवं च सत्संगतिरेव विधेयेति ध्वन्यते ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गयार्थदीपनया समेता खकारव्रज्या ।
गकारव्रज्या। केनचिगुणवता दरिद्रेण संयोजयितुं काचित्कांचिद्वक्ति
गुणमधिगतमपि धनवान्न चिरान्नाशयति रक्षति दरिद्रः ।
मज्जयति रज्जुमम्भसि पूर्णः कुम्भः सखि न तुच्छः ॥१९॥ गुणमिति । हे सखि, प्राप्तमपि । एवं चाधिकार्जनं दुरापास्तमिति भावः । दरिद्रो रक्षत्यपि । एवं च नवीनमर्जयतीति भावः। तुच्छोऽपरिपूर्णः। एवं च दारियेऽपि गुणवत्त्वादेतत्संगतिरेवोचितेति व्यज्यते । यद्वा साधारणोकिरियम् ॥ महदजीकारेणैव महत्सविधे गमनमुचितम् , अन्यथा नेति कश्चित्कंचिदुपदिशति- गुरुरपि लघूपनीतो न निमज्जति नियतमाशये महतः ।
वानरकरोपनीतः शैलो मकरालयस्येव ॥ १९५॥ गुरुरिति । आशयेऽन्तःकरणे, मध्ये च । मकरालयपदेन खल्पस्याप्यन्तर्वसतियोग्यत्वमिति व्यज्यते । एवं चैतादृशेऽप्यत्यन्तमहतो लघ्वङ्गीकरणानासन्तपरिचतिरिति व्यज्यते ॥ कदापि कस्याप्यवाच्यं न वाच्यमिति कश्चित्कंचिदुपदिशति
गौरीपतेर्गरीयो गरलं गत्वा गले जीर्णम् ।
जीर्यति कर्णे महतां दुर्वादो नाल्पमपि विशति ॥ १९६ ॥ गौरीपतेरिति । महत्तर गरलं गत्वा । एवं च तद्ब्रहणे नोद्यमो गौरीपतेरिति भावः । एवं च महद्भिः परदोषश्रवणे नोद्यमः क्रियत इति किं वक्तव्यम् । तज्जातं
दैव नश्यतीति व्यज्यते। जगदीश्वरस्य कण्ठे जीर्णम् । एवं च बहिनिःसरणानहत्वं व्यज्यते । महतां कर्णे दुर्वादो जीर्यति। अल्पमपि न प्रविशति । एवं च श्रवणसमसमयमेव दुर्वादो नश्यति, न सतां खल्पमपि हृदयमवतरतीति भावः । अल्पं नीचपुरुषं विशत्यपि, न जीर्यतीति किमु वाच्यमिति भावः । एवं च महमुखान कस्यचिडूषणं निःसरसि, क्षुद्रस्य मुखाबहिरेव निःसरतीति व्यज्यत इति
७ आ. स.