________________
काव्यमाला।
वार्थः । एवं च यदि ते महत्त्वापेक्षा तार्ह न कदापि कस्यापि निन्दा विधेयेति घोसते । दुर्वादे गरलसमताप्रतिपादनेन दाहकत्वातिशयो द्योयते ॥ कस्याश्चिद्वार्ता काचिद्वति
गृहपतिपुरतो जारं कपटकथाकथितमन्मथावस्थम् ।
प्रीणयति पीडयति च बाला निःश्वस्य निःश्वस्य ॥ १९७ ।। गृहपतीति । गृहपतिपदेन गृहव्यासङ्गप्रवणत्वेन प्रतारणार्हत्वं ध्वन्यते । तत्पुरतः। 'धनविशेषाप्राप्त्या मनसिजसंतापकदर्थितोऽहं भवद्विधद्विजराजदर्शनमपि गृहीतुं नोत्सहे, केवलं गरलगिलनमेवाश्रित्येदानी संसारविरतिं विधास्ये' इत्यादि कपटवार्ताभिः कथितखमन्मथावस्थं जारम् । बाला षोडशवार्षिकी । एवं चोन्मादवत्त्वं ध्वन्यते । पतिपुरत इदमप्यत्रान्वेति । निःश्वस्य । तथाविधदारिद्यश्रवणातुः कम्पयेति भावः । अथ च 'तावत्पर्यन्तं सुरतरजं विधाये, यावत्ते श्रमातिशयाच्वासोच्छ्रासातिशयो भावी' इति कथनेन, अथवा 'श्वासपरित्यागेन विरहेण तव प्राणापगमे ममापि प्राणा गमिष्यन्ति' इति प्रेमातिशयदर्शनेन प्रीणयति । तथावि. धचेष्टासन्जितरतातिशयानुस्मारणेन पीडयति च । एवं च स्त्रीधूर्तत्वं केनापि विज्ञातुमशक्यमिति धन्यते ॥ रतप्रावीण्यविहीनं पुंस्त्वामिमानशालिनं काचिदन्योक्त्या वति
गतिगञ्जितवरयुवतिः करी कपोलौ करोतु मदमलिनौ।
मुखबन्धमात्रसिन्धुर लम्बोदर किं मदं वहसि ॥ १९८ ॥ गतीति । गत्या गमनविशेषेण गजिता तिरस्कृता। पक्षे ज्ञानेन । रविनैपुग्येनेत्यर्थः । गजिता रतिविजयेन खाधीनीकृता । वरा गतिविशेषशालितया । पक्षे कामकेलिकोविदात्वेन । युवतिर्येन । मुखबन्धमात्रेण । एवं च करिकार्यसत्त्वाभावो व्यज्यते । सिन्धुर गज । लम्बोदर। एवं च गतिविशेषशून्यत्वं व्यज्यते। पक्षे लम्बोदरपदेनोत्थानासामर्थ्यममिव्यज्यते। किं मदं वहसि । एवं च पुरुषचिहसत्वमात्रेण न गवस्त्वया विधेय इति द्योत्यते । यद्वान्यकामुकसमताकारिणं कंचन काचिदन्योक्ला वक्ति । एवं च तत्तुल्यं त्वयि न सामर्थ्यमिति व्यज्यते ॥ काचित्कस्याश्चिद्वार्ता वक्ति
गेहिन्याः शृण्वन्ती गोत्रस्खलितापराधतो मानम् । स्निग्धां प्रिये सगर्वा सखीषु बाला दृशं दिशति ॥ १९९ ॥ हिन्या इति । श्रेष्ठपन्या नामस्खलनरूपापराधजन्यं मानं शृण्वन्ती। मन