________________
आर्यासप्तशती।
सुमागमश्चिन्त्यः । बाला । प्रिये स्निग्धाम् । खासक्तिज्ञानजनितप्रेमवत्तयेति भावः । सखीषु सगर्वाम् । ईदृश्यहं गुणशालिनीति धियेति भावः । यतासां प्रिया नैताखेतादृशासक्तिमन्त इति धियेति भावः ॥ केलिवने गन्तव्यमिति कश्चित्कांचिद्वक्ति
ग्रीष्ममये समयेऽस्मिन्विनिर्मितं कलय केलिवनमूले।
अलमालवालवलयच्छलेन कुण्डलितमिव शैत्यम् ॥ २० ॥ ग्रीष्मेति । संतापप्रचुरेऽस्मिन्समये विनिर्मितम् । वृक्षसंजीवनार्थमिति भावः। कोडावृक्षसमूहमले । वनपदेन सर्वत्र तत्र शैयमित्यावेद्यते। अत्यर्थ शैत्यमाललवलयमिषेण । वलयपदं कुण्डलितत्वदाव्य । कुण्डलितमिव निर्बन्धवत्तां पितमिव त्वं कलय । एवं चैतत्समये क्रीडा तत्रैवोचितेति भावः । यद्वा ग्रीष्मरूपे समये कोडावृक्षसमूहमूले विशेषेण निर्मितम् । कलशसेचनादिनेति भावः । स्मिन्समये । वर्षाकाल इत्यर्थः । आलवालवलयमिषेणालमत्यर्थ कुण्डलितमिव रर्थकीकृतमिव कलय । मेघोदकेन तनिर्वाहादिति भावः । अन्यदपि निरर्थक डलितं कृतमिति लौकिकम् । एवं च वर्षासमयः संवृत्तः अतस्ते प्रियः समास्थतीति सखी नायिका समाश्वासयतीत्यर्थः । अथवा नायको नायिका वक्तिव संबुद्धिपदानुपादानं मदनबाधातिशयं व्यनक्ति । ग्रीष्मखरूपे समये केलिवनके विनिर्मितं शैत्यमस्मिन् । पुरोवर्तिनि त्वत्कुचमण्डले सतीत्यर्थः । आलवालव्यभिषेणेवात्यन्तं कुण्डलितम् । एवं चैतादृशग्रीष्मसमये त्वत्कुचमण्डलसमं न्यदस्ति शीतलतरमिति ध्वन्यते । तेन चातिमनोजानलसंतप्तस्य ममेदमेव रणमिति ॥
मदीयगुणनिबद्धोऽयमिति बुद्ध्या नायं नायकस्त्वया विश्वसनीय इत्यन्योक्त्या चित्कांचिदुपदिशति
गुणबद्धचरण इति मा लीलाविहगं विमुञ्च सखि मुग्धे।'
असिन्वलयितशाखे क्षणेन गुणयन्त्रणं त्रुटति ॥ २०१॥ गुणबद्धति । हे सखि । एवं चोपदेशाईत्वं व्यज्यते । मुग्धे । इत्यनेनाज्ञत्वं यते । गुणैः सूत्रः। पक्षे चातुर्यादिभिः । बद्धचरणः । पक्षे बद्धावरणः । व्यवहार इति यावत् । इति हेतोलीलाविहगं मा विमुच्च । निबद्धचरणत्वात्कानेन तव्यमिति वियेति भावः । यतोऽस्मिन्वलयितशाखे वृक्षे गुणैर्यत्रणं बन्धनम् ।