________________
काव्यमाला।
'पक्षे खाधीनतासंपादनम् । क्षणेन त्रुटति । एवं चात्यन्तसावधानतया स्थैयमित्यावेद्यते । लीलाविहगमित्यनेन सर्वस्पृहणीयत्वं ध्वन्यते । वेन चातिसंरक्षणीयत्वम् । विहगपदेनेतस्ततो गमनखाभाव्यं द्योत्यते । वलयितशाख इत्यनेन गुणवुटनयोग्यत्वम् । पक्षे नायिकासमूहशालित्वं व्यज्यते ॥ मदनवेदनासत्येति काचिद्वक्ति
गुरुगर्जिसान्द्रविद्युद्भयमुद्रितकर्णचक्षुषां पुरतः । . बाला चुम्बति जारं वज्रादधिको हि मदनेषुः ॥ २०२॥
गुर्विति । गुरुगार्जिश्च निबिडविद्युच्चानयोर्यद्भयं तेनाच्छादितश्रोत्रनेत्राणां पुरतो बाला । एवं च भीतियोग्यत्वम् । जारं चुम्बति। हि यस्मान्मदनबाणो वज्रादधिकः । एवं च मेघगर्जितविद्युद्भयस्य क्षणिकत्वेनातिशीघ्रनेत्रोन्मीलने द्रष्टव्यमेतैरिति विवेकविधुरत्वं ध्वन्यते । यद्वा बहूनामपि भयजनके गर्जितादौ खयमेका न भीतेति साहसवत्त्वमावेद्यते ॥ मानसंपादनप्रधानशीलां नायिका सखी वक्ति
गृहिणीगुणेषु गणिता विनयः सेवा विधेयतेति गुणाः ।
मानः प्रभुता वाम्यं विभूषणं वामनयनानाम् ॥ २०३ ।। गृहिणीति । गृहिणी गृहाधिपत्यशालिनी । तद्गुणेषु विनयादित्रितयं गुणः । वामनयनानां दुःशीलानां मानादि विभूषणम् । एवं च यदि गृहाधिपत्यप्रतिष्ठादिकामा त्वमसि तर्हि मानाद्यपहाय विनयायेव कुर्विति ध्वन्यते । यद्वा तव नायिकात्यन्तं प्रभुताकारिणीति वादिनं कश्चिद्वक्ति-वामनयनानाम् । त्रिविधानामिति भावः। मध्ये गृहिणीगुणेषु खोयागुणेषु नम्रता, सेवा, आज्ञाकारित्वमिति गुणाः प्रधानभूता गणिताः । एवं चैतद्गुणवतीनामेव खीयात्वमिति व्यज्यते । तेन चैतद्वत्त्वं सर्व खीयाखिति तद्वत्त्वेन न कापि श्लाघ्यतेति । वामनयमानां मध्ये गृहिणीष्वेते गुणा गणिता इत्येव वक्तव्ये गुणेष्विति पदोपादानम् , अन्येऽपि गुणाः सन्ति परंतु तेप्रधानभूता इति द्योतयितुम् । मानः, प्रभुता, वाम्यमिदं विभूषणम् । एवं वैतत्रितयं कस्यचिदेव भाग्यवतोऽजनायां भवतीति व्यज्यते । एवं च विनयादेः सर्वगृहिणीगुणत्वेन विद्यमानत्वेऽपि मानादिविभूषणसत्त्वेन खाङ्गनायामाधिक्यं व्यज्यते । यद्वा गृहिण्या गृहकर्मव्यापृतायाः। किंचिद्तयौवनाया इति भावः । विनयादयो गुणा मुल्यत्वेन गणिताः । एवं चैतेषामेव तद्भषणत्वं व्यज्यते। वाम