________________
आर्यासप्तशती।
नयनानाम् । यौवनातिशयशालिनीनामिति भावः । मानादयो विभूषणमित्यर्थः । अथवा सर्वदा नायकस्य विनयसेवादिकमेव करोषि न कदापि किमिति प्रभुतां नाटयसीति वादिनी काचिद्वक्ति-गृहिण्या विनयादयो विभूषणम् , कुटिलनयनानां तु मानादयो विभूषणम् । एवं च खस्मिन्नत्यन्तसाधुत्वमावेद्यत इत्यर्थः । यद्वा खीयागुणेषु विनयादयो मुख्या गणिता वामनयनानां परकीयादीनां वाम्यादि विभूषणम् । एवं च खीयाया एवैतत्करणमनुचितमिति भावः । विभूषणपदेन वाम्यादौ गुणव्यवहाराभावो द्योत्यते । अथवा स्त्रीषु मध्ये गृहिणीनां विनयादयो गुणाः । गुणपदेन नैसर्गिकत्वं व्यज्यते । भूषणपदेन वाम्यादावचिरावस्थायित्वं ध्वन्यते । एवं च न मया वाम्यादि बहुकालं स्थाप्यम् , अपि तु विनयादि विधेयमिति 'बहुकालं मानः कर्तव्यः' इति वादिनी काचिद्वति ॥ भर्तृकृतातिशयलालनेऽपि कथं त्वं दुःखितैवासीति वादिनी काचिद्वति
गुणमान्तरमगुणं वा लक्ष्मीगङ्गा च वेद हरिहरयोः ।
एका पदेऽपि रमते न वसति निहिता शिरस्यपरा ॥ २० ॥ गुणमिति।हरिहरयोरान्तरम् । एवं च वहिर्दर्शनायोग्यत्वं ध्वन्यते। गुणं दोष वा लक्ष्मीर्गहा च वेद । यत एका लक्ष्मीः पदेऽपि । एवं च बाह्यादराभावो द्योत्यते। रमते । अपरा गङ्गा शिरसि निहितापि । एवं च बाह्यादरो द्योत्यते । न तिष्ठति । एवं च या यत्संगतिशालिनी सैव तद्गुणदोषं विजानाति, नान्या कापीति ध्वन्यते ॥ • चिरप्रत्यागतं पुनर्विदेशं गन्तुकामं नायकं काचिद्वक्ति
गत्वा जीवितसंशयमभ्यस्तः सोढुमतिचिराद्विरहः ।
अकरुण पुनरपि दित्ससि सुरतदुरभ्यासमस्माकम् ॥ २०५।। गत्वेति । जावितसंदेहं प्राप्यातिचिरकालेन विरहः सोढुमभ्यस्तः । हे अकरुण करुणाशून्य । एवं च पूर्वमपि करुणाभावो द्योत्यते । अस्माकं सुरतस्य दुरभ्यासं पुनरपि दित्ससि दातुमिच्छसि । एवं चातःपरं त्वद्विदेशगमनेऽस्माकं प्राणपरित्याग एव भविष्यतीति व्यज्यते ॥ कश्चित्कस्याश्चिद्वार्ता वक्ति
गोत्रस्खलितप्रश्भेऽप्युत्तरमतिशीलशीतलं दत्त्वा । _ निःखस्य मोघरूपे खवपुषि निहितं तया चक्षुः ॥ २०६ ॥ . • गोत्रेति । गोत्रस्खलितेन प्रश्नस्तस्मिन्नपि । एवं चावश्यक्रोधजननयोग्यत्वं