________________
१०२
काव्यमाला।
द्योत्यते । अत्यन्तखभावशीतलमुत्तरं दत्त्वा । निष्फलं रूपं यस्य तस्मिन् । कान्तचित्तश्यतासंपादनसामर्थ्याभावादिति भावः । खीयदेहे निःश्वस्य दुःखोद्रेकादिति भावः । तया नेत्रं निहितम् । विद्यमानमपीदं रूपादि किमिति न नायकवश्यतासंपादकमिति धियेति भावः ॥ काचित्कांचिदन्योक्त्या वक्ति
गन्धपाहिणि शालोन्मीलितनिर्यासनिहितनिखिलागि।
उपभुक्तमुकभूरुहशतेऽधुना प्रमरि न भ्रमसि ॥२०७ ॥ गन्धेति । आमोदप्राहिणि । एवं च लोलुपत्वचाचल्ये व्यज्यते । शालस्य वृक्षविशेषस्योन्मीलन्यो निर्यासस्वत्र निहितसर्वाङ्गि । उन्मीलत्पदेन नवीनदर्शननायकदर्शितातिशयितप्रेमशालिनी त्वमिति द्योत्यते । उपभुक्तमुकं वृक्षशतं यया तत्संबुद्धिः । एवं चैकस्यापि न संगतिस्त्वया निर्वाहितेति धन्यते। भूरुहपदेनाल्पवयस्कसंगतिशालित्वम् , तेन चातिनीचगुणवत्त्वं ध्वन्यते । भ्रमरि, अधुना न भ्रमसि । एवं च त्वमेतादृशीति विज्ञाय सर्वैरुपेक्षितेति व्यज्यते ॥ केनचिदूनसमतामापादितः कश्चिदन्योक्या वक्ति
गुरुषु मिलितेषु शिरसा प्रणमसि लघुपूनता समेषु समा।
उचितज्ञासि तुले किं तुलयसि गुलाफलैः कनकम् ॥२०॥ गुरुध्विति । गुरुताशालिषु । पक्षे श्रेष्ठेषु । मिलितेषु संयुक्तेषु । पक्षे समागतेषु । शिरसाप्रभागेन । पक्षे मस्तकेन । प्रकर्षेण नमस्यवनता भवति । पक्षे नमस्करोषि । लघुषु न्यूनपरिमाणशालिषु । पक्षे नीचेषु । उनतोचा । पक्षे साभिमाना । समेषु समा । अत एव तुले उचितज्ञासि । कनकं गुजाफलैस्तुलयसीदं किम् । एवं चात्रैव तवोचितज्ञता कुत्र गतेति व्यज्यते ॥ कश्चिदेहिनीसखी वक्ति
गेहिन्या हियमाणं निरुध्यमानं नवोढया पुरतः ।
मम नौकाद्वितयार्पितगुण इव हृदयं द्विषा भवति ॥ २०९ ॥ गेहिन्येति । गेहिन्या प्रौढया हियमाणम् । न तु इतमिति भावः । नवोढया पुरतो निरुध्यमानम् । न तु निरुद्धम् । मम नौकाहित्य विपरीतगामि तत्सं.बन्धिगुण इव हृदयं द्विप्रकार भवति । नौकासमनाप्रतिपालेनोमयत्र रससंब.