________________
आर्यासप्तशती ।
१०३
न्धित्वं ध्वन्यते । एवं चोभयत्र समप्रीतिरहमस्मीति व्यज्यते । 'पद इव' इति क्वचित्पाठः ॥
एकत्रैव गुणे दृढा परिचितिरुचिता, न तु सर्वत्र यथाकथंचिदिति कश्चिद्वतिगुण आकर्षणयोग्यो धनुष इवैकोऽपि लक्षलाभाय । लतातन्तुभिरिव किं गुणैर्विमर्दास है र्बहुभिः ॥ २९० ॥
1
गुण इति । आकर्षणाय योग्यः । विचारक्षम इत्यर्थः । पक्षे यथाश्रुतम् । एवं च दृढत्वं ध्वन्यते । गुणो धनुष इवैकोऽपि लक्षसंख्याकधनलाभाय । पक्षे वेध्यलाभाय । विमर्दास हैर्विचारासहैः । पक्ष आकर्षणासहैः । लुता कीटविशेषस्तत्तन्तु - भिरिव बहुभिर्गुणैः किम् । न किंचित्फलमित्यर्थः ॥ नायिकास िनायके दूती वक्ति
गायति गीते शंसति वंशे वादयति सा विपञ्चीषु । पाठयति पञ्जरशुकांस्तव संवादाक्षरं बाला ॥ २११ ॥
गायतीति । विपक्षीषु पञ्जरशुकानिति च बहुवचनम् । वादितस्य पुनर्वादनेन पाठितस्य पुनः पाठनेन संवादाक्षरे प्रेमातिशयो द्योत्यते । एवं च त्वत्संवादैकाक्षरमपि तस्याः प्राणप्रियमित्यासक्तिविशेषो व्यज्यते ॥
अत्र क्षुद्रस्यापि प्राप्तिः सौम्यतया, न गर्वेण महत इति कश्चिदन्योक्त्या वक्ति— गणयति न मधुव्ययमयमविरतमापिबतु मधुकरः कुमुदम् । सौभाग्यमानवान्परमसूयति घुमणये चन्द्रः ॥ २१२ ॥ गणयतीति । मधुकरः कुमुदमापिबतु । सौभाग्यमानवानयं चन्द्रो मधुव्ययं -न गणयति । परं द्युमणये सूर्यायासूयति । एवं च महतः सूर्यस्य न कुमुदोपभोगस्तत्र चन्द्रस्य न कार्पण्यं हेतुर्यतो मधुकरस्योपभोगः । किं तु सूर्यगर्व एव यथा · तथात्र न गर्वेण प्राप्तिरिति ध्वन्यते ॥
सखी नायिकां वक्ति
गुणविधृता सखि तिष्ठसि तथैव देहेन किं तु हृदयं ते । हृतममुना मालायाः समीरणेनेव सौरभ्यम् ॥ २१३ ॥
गुणेति । सखि, गुणैर्लोकवादभीत्यादिभिर्विधृता । पक्षे दोरकैः । देहेन तथैव यथापूर्वैव तिष्ठसि । किं तु समीरणेन मालायाः सौरभ्यमिवामुना नायकेन ते हृदयं
1