________________
१०४
काव्यमाला।
हृतम् । एवं च न तवापराध इति भाषः। एवं च नास्मल्लज्जा कार्येति द्योत्यते । एवं च यद्यपि त्वं यथास्थिता दृश्यसे तथापि त्वचित्तं मान्मथावस्थादुस्थं वृत्तमित्यावेद्यते । तेन चास्माकं प्रति गोपनमनर्थकमिति । यद्वा बलद्देहेन कृतापि धृतिरनथकव, अतो यतख तन्मिलनायेति व्यज्यते ॥ कश्चित्सखायं वक्ति
गुरुसदने नेदीयसि चरणगते मयि च मूकयापि तया ।
नूपुरमपास्य पदयोः किं न प्रियमीरितं प्रियया ॥ २१४ ॥ - गुर्विति । नेदीयसि निकटे सति। मयि चरणगते प्रणमति सति । एवं च नायिकायां मानवत्त्वं द्योत्यते । मूकयापि । गुरुमीयेति भावः । तया चरणयोः । नूपुरमित्येकत्वमविवक्षितम् । अपास्य प्रियया। एवं चैतादृशविधानमुचितमेघेति ध्वन्यते । कि न प्रियमीरितम् । अपि तु सर्वमीरितम् । एवं च शब्दजनकनूपुरत्यागेन रत्यनुमतिर्दत्तेति द्योलते। यद्वा निःशब्दपदसंचारेण त्वयात्र रानावागन्त. व्यमिति ध्वन्यते । अथवा निष्ठुरवचनमूलभूतो मानः परित्यको मयेति व्यज्यते । प्रस्थितैवाहं त्वमग्रे गच्छेति वा ॥ किमिति दरिद्रेऽनुरक्तासीति वादिनी काचिद्वक्ति__ ग्रन्थिलतया किमिक्षो किमपभ्रंशेन भवति गीतस्य ।
किमनार्जवेन शशिनः किं दारिद्येण दयितस्य ॥ २१५॥ ग्रन्थिलतयेति । अनार्जवेन कौटिल्येन। एवं च रसनाश्रवणनयनाचेकैकमुखप्रदातृतयेक्ष्वादीनां प्रन्थिलत्वादयो दोषा न गण्यन्ते। किं पुनः सर्वाङ्गीणानन्दप्रदस्य दयितस्य दारिद्यैकदोषो न गण्यत इति । तद्गणनाकारिण्योऽतिभ्रान्ता इति ध्वन्यते । यद्वा अन्थ्यादिसत्त्वेऽपीक्ष्वादे रसप्रदत्वं नापैति यथा तथा दारिधेऽपि न सुखप्रदत्वमपैतीति व्यज्यते ॥ कश्चित्सखायं वक्ति
गेहिन्या चिकुरग्रहसमयससीत्कारमीलितहशापि । - बालाकपोलपुलकं विलोक्य निहतोऽस्मि शिरसि पदा ॥२१६॥
गेहिन्येति । केशग्रहस्य । चुम्बनार्थमिति भावः । समये ससीत्कार मीलितदशापि गेहिन्या बालायाः कपोलसंबन्धि पुलकम् । चुम्बनजन्यमिति भावः ।