SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ७२ काव्यमालां । कस्याश्चिद्रतौत्सुक्यं काचित्कांचिद्वक्ति— उद्दिश्य निःसरन्तीं सखीमियं कपटकोपकुटिलनः । एवमवतंसमाक्षिपदाहतदीपो यथा पतति ॥ १२५ ॥ उद्दिश्येति । उद्दिश्येदं विधेयमस्तीति निःसरन्तीम् । अर्थात्केलिसदनात् । सखीमियं नायिका कपटकोपेन । न वास्तवेनेति भावः । कुटिले भ्रुवौ यस्याः । अवतंसं यथाहतो दीपों यस्मिन्कर्मणि पतत्येवमाक्षिपत् । सख्या उपरि त्यजति स्म । एवं च दीपनाशनेन रतौत्कण्ठ्यं व्यज्यते ॥ खल्पबलेऽपि शान्तिशालिनि प्रबलस्य न तथा तेजोऽधिकं भवतीति कश्चिदन्योक्त्या कंचन वक्ति— उदितोऽपि तुहिनगहने गगनप्रान्ते न दीप्यते तपनः । कठिनघृतपूरपूर्णे शरावशिरसि प्रदीप इव ॥ १२६ ॥ उदितोऽपीति । उदितोऽपि । एवं च क्षीणत्वाभावो व्यज्यते । तुहिनस्य हिमस्य गहनं यस्मिन् । अथवा तुहिनेन गहने निबिड आकाशप्रान्ते । तापयतीति तपनः सूर्यो न दीप्यते नात्यन्तं प्रदीप्तो भवति । कठिनघृतपूरेण पूर्णे शरावस्य मृद्भाजनविशेषस्य शिरसि प्रदीप इव । एवं च शीलशीतले न कस्यचित्को धानेराधिक्यमिति व्यज्यते । तेन शान्तिप्रवणत्वमुचितमिति । यद्वा सौम्यसमुदाये क्रूरेण न किंचित्कर्तुं शक्यमिति कश्चिदन्योक्त्या वक्ति । दीपसादृश्यार्थ प्रान्तपदम् । अथवा हीनबलसमुदायाक्रान्तप्रबलस्य शनैर्बलं भवत्येवेत्यन्योक्त्या वक्ति । उदितः । 'अपिः ' 'तुहिनगहने' इत्यत्रान्वेति । नेति काकुः । अथवा बहुतरशान्तिमति हृदयाकाशे न कामक्रोधादेस्तथा प्रसर इति कश्चित्कंचिद्वति ॥ उद्गमनादि व्यापारालसा त्वं किमितीति वादिनीं सखीं नायिका वक्तिउद्गमनोपनिवेशनशयनपरावृत्तिवलनचलनेषु । अनिशं स मोहयति मां इल्लमः श्वास इव दयितः ॥ १२७ ॥ उङ्गमनेति । स दृष्टपूर्वः, अनिशं निरन्तरम्, हमो हृदयमधिष्ठितः । यद्वानिशं मोहयतीति योजना । दयितः, उद्गमन उत्थाने, उपनिबेशने स्थितो, शयनपरावृत्ती, पार्श्वपरिवर्तने, वलने वक्राकरणे, वचनव्यापारे च मोहयति भ्रान्ति मनयति । तत्तव्यापारासमर्था करोतीति भावः । एवं च तथाविधनायकाप्रात्मा
SR No.010835
Book TitleArya Saptashati
Original Sutra AuthorN/A
AuthorGovardhanacharya, Vasudev Lakshman Sharma
PublisherPandurang Javji
Publication Year1934
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy