________________
आर्यासप्तशती। नायिका प्रति वक्तिउडीनानामेषां प्रासादातरुणि पक्षिणां पतिः। ,
विस्फुरति वैजयन्ती पवनच्छिन्नापविद्धेव ॥ १२२ ॥ उडीनेति । प्रासादादुडीनानामेकगतिविशेषशालिनाम् । हे तरुणि, पक्षिणां तिः पवनेन च्छिन्ना चासावपविद्धा वैजयन्ती मालेव विशेषेण स्फुरति त्वं पश्य । वं च नायकः प्रासादमायातस्त्वमपि प्रयाहीति ध्वन्यते । यद्वा संकेतस्थलमिदमिति व्यज्यते ॥
अतितीक्ष्णमतिभिः संरक्ष्यमाणां कांचित्कश्चिदन्योक्त्या वक्ति। उज्जागरितभ्रामितदन्तुरदलरुद्धमधुकरप्रकरे।
काश्चनकेतकि मा तव विकसतु सौरभ्यसंभारः ॥ १२३ ॥ उजागरितेति । काश्चनकेतकि, उज्जागरितः, भ्रामितः, उच्चावचपत्रेनिरुद्धः, मधुकराणां प्रकरो यया तत्संबुद्धिः । तव सौरभ्यसंभारो मा विकसतु । एवं च पद्दर्शनेन येषां यूनामितस्ततस्त्वदर्शनाय भ्रमणरात्रिजागरणादि भवति तेषां दुष्टादिभिर्निवारणे क्रियमाणे त्वद्यौवनं निष्फलमिति व्यज्यते ॥ सखी नायिकां वक्ति
उल्लसितभूः किमतिक्रान्तं चिन्तयसि निस्तरनाक्षि ।
क्षुद्रापचारविरसः पाकः प्रेम्णो गुडस्येव ॥ १२ ॥ उल्लसितभूरिति । निस्तरले अक्षिणी यस्यास्तत्संबुद्धिः, निश्चलेक्षणे । एवं च चिन्तावत्त्वमभिव्यज्यते। उल्लसितभूः सती त्वमतिक्रान्तं निवृत्तं किं चिन्तयसि । एवं च निवृत्तचिन्तनमनर्थकमिति भावः । यतो गुडस्येव प्रेम्णः पाक: परिपाकः क्षुद्रस्य नीचस्य। पक्षे क्षुद्राया मक्षिकाया अपचारः संबन्धस्तेन विरसो भवति । एवं च नीचमाध्यस्थ्ये प्रेम्णो न निर्वाह इति भावः । एवं च नीचमाध्यस्थं प्रथमतो विधाय पश्चाञ्चिन्ताविधानमनुचितमिति द्योत्सते। धुंबासक्त्युत्तरं कथमधुना विधेयमिति सचिन्तां सखी वक्ति । एवं च क्षुद्रसंबन्धेऽवश्यं प्रेमवैरस्थमिति धन्य। तेन व तत्परित्याम एकोचित इति कश्चित् ॥