________________
७३
आर्यासप्तशती। मैतादृशं दुःखं भवतीति व्यज्यते । तेन च तदानयनार्थ यतखेति । हलमः श्वास व । हृच्छासरोगेणापि गमनोपवेशनादि व्यापारेष्वत्यन्तं दुःखं भवति ॥ | कयोश्चित्कटाक्षमात्रेणैव योगः संवृत्त इति काचिद्वक्ति । यद्वा न दूत्यादेरुपयोगः, के तु कटाक्षमात्रेणैत्र कार्य कर्तुं शक्यमिति काचित्कांचिद्वक्ति
उज्झितसौभाग्यमदस्फुटयाच्चानङ्गमीतयोयूनोः। ___ अकलितमनसोरेका दृष्टि ती निसृष्टार्था ॥ १२८ ॥
उज्झितेति । उज्झितस्त्याजितः सौभाग्यस्य मदो ययैतादृशी या प्रकटयाचा, भनङ्गश्च । एतद्भौतयोः । स्फुटप्रार्थनायां सौभाग्यमदभङ्गः, अप्रार्थनायां मदन
घेत्युभयत्रापि भीतिरिति भावः । 'भङ्ग' इति पाठे सौभाग्यमदभङ्गं सोढापि पानायां कृतायां तत्फलाभावे भीतिरित्यर्थः । अकलितं मनो याभ्यां तयोः अविज्ञातपरस्पराभिप्राययोरित्यर्थः । यूनोरेका दृष्टिः परस्परावलोकनं निसृष्टार्था दूती। उभयोर्भावमुन्नीय खयं वदति चोत्तरम् । सूत्कृष्टं कुरुते कार्य निसृष्टार्था तु सा स्मृता ॥' एवं च कटाक्षमात्रेणैव संयोगः संवृत्तः कर्तुं शक्य इति ध्वन्यते ॥ । यद्यपीयं बहुभिर्भुज्यते तथाप्येकस्मिन्नेव जारेऽत्यन्तमासक्तेति काचि. कांचिकि
उत्तमभुजंगसंगमनिस्पन्दनितम्बचापलस्तस्याः ।
मन्दरगिरिरिव विबुधैरितस्ततः कृष्यते कायः ॥१२९ ॥ उत्तमेति । उत्तमो यो भुजंगः सर्पः । उत्तमपदेन चित्तस्थिरीकरणयोग्यत्वं व्यज्यते पक्षे विजः तत्संगमेन बन्धनेन । पक्षे संभोगेनेति भावः। चपलत्वे हितुः । निस्पन्दस्य निश्चलस्य । पूर्वमिति भावः । नितम्बस्य कटकस्य । पक्षे कटिप्रदेशस्य । चापलं यस्मिन् । यद्वोत्तमभुजंगसंगमेन निश्चलनितम्बो यस्मिनेतादृशं चापलं यस्य । एवं च बाह्यरतवत्तान्येषां नान्तररतवत्तेति भावः। तस्याः कायो देहो मन्दराचल इव विबुधैर्ज्ञानवद्भिः । पक्षे देवैः । इतस्ततः कृष्यते । एवं चान्यैर्भुज्यमानापि न मनो निवेशयति तेषु, किं तु तथाविधजारसंभोगतृप्त्या तसिनेवासकेति वन्यते ॥ एतस्याः पतिरत्यन्तजडोऽस्ति, अतस्त्वया न मेतव्यमिति काचित्कंचिदति
उपनीय कलमकुडवं कथयति समयश्चिकित्सके हलिकः ।
शोणं सोमानिमं वधूतने व्याधिमुपजातम् ॥ १३०॥ उपनीयेति । कलमानो धातिविशेषाणां कर पाबनिर्मितं प्रवसपनीय