________________
६८
काव्यमाल।
लोके । वहति । कमठमूतैर्देवस्य कच्छपरूपभगवतो निखिलं समनं पृष्ठमपि नामोति । एवं च सर्वशरीरव्यापनं वेति भावः । एवं चैतस्यास्तत्पृष्ठावलोकनमपि दुर्लभम्, तत्र किमु वाच्यं तत्संगमादिरिति व्यज्यते। तेन चेयं भवत्सविधे मिथ्यागर्वमुदहतीति ॥
इस्सनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेतकारव्रज्या ।
इकारव्रज्या। कश्चित्सखायं वक्तिईर्ष्यारोषज्वलितो निजपतिसङ्गं विचिन्तयंस्तस्याः ।
च्युतवसनजघनभावनसान्द्रानन्देन निर्वामि ॥ ११४ ॥ ईयेति । तस्या मिजपतिसङ्गं विचिन्तयनीयॆयाक्षान्त्या यो रोषस्तेन ज्वलितः संतप्तध्युतक्सनं जघनं तचिन्तनेन यः सान्द्रानन्दस्तेन निर्वामि संतोषं प्राप्नोमि । एवं च तदीयतथाविधजघनध्यानादेतादृशानन्दः, तत्र किमु वाच्यस्तत्प्राप्ताविति भावः॥
काचित् ‘महत्परिगृहीतेयम्, अतस्त्वयैतस्यामासक्तिर्न कार्या' इत्यन्योक्त्या कंचिद्वति
ईश्वरपरिग्रहोचितमोहोऽस्यां मधुप किं मुधा पतसि ।
कनकामिधानसारा वीतरसा कितवकलिकेयम् ॥ ११५ ॥ ईश्वरेति । महादेवकृताङ्गीकारेणोचितो मोहो श्रमो यस्यैतादृशस्त्वम् । महादेवस्य धत्तरपुष्पं प्रियमिति पुराणादी प्रसिद्धम् । पक्ष ईश्वरो महांस्तदङ्गीकारेणो. चितो मोह आसक्तिर्यस्य । एवं च महत्परिप्रहादेवास्यां समीचीनत्वभ्रमेणासक्तिः, न वास्तविकगुणवत्त्वेनेति भावः । अस्यां कलिकायाम् । मधुप। एवं च सारग्राहकत्वेन याथातथ्येन गुणमार्गणमुचितं तवेति द्योत्यते। यद्वा भ्रान्तत्वम् । मुधा किमिति पतसि । यत इयं कनकाभिधानमेव सारो यस्याः । एवं चार्थशून्यत्वं व्यज्यते । वीतरसाविद्यमानमकरन्दा कितवस्य कलिका । 'उन्मत्तः कितवो धूर्तो धतूरः कनकालयः' इत्यमरः । यद्वा कितव धूर्त । एवं चैतादृशाचरणमनुचितमि-' सविचते कलिका । एवं च महत्तरस्यानुरागवशादेवास्थामुन्मादमात्रजनिकायां नाशीकायानासचिन विषया, किंतु गुणाचालोकनेनेति व्यज्यते ॥