________________
आर्यासतशती।
काचिनायिका वति
इन्दोरिवास्स पुरतो यद्विमुखी सापवारणा अमसि ।
तत्कथय किं नु दुरितं सखि त्वया छाययेव कृतम् ॥११॥ इन्दोरिति । इन्दोरिव । एवं च संतापापनोदकत्वम् , तेन चालिवनाहत्वं न्यते । अस्य नायकस्य पुरतोऽग्रे यद्येन विमुखी परिवर्तितवदना । पक्षे पराखी। सापवारणा कृतावरणा । पक्षेऽन्तर्धिसहिता । चन्द्रान्तर्गतत्वादिति भावः। मसीतखतो गच्छसि । पक्षे चन्द्रचलनादिति भावः। त्वया छाययेव किं नु रितं कृतं तत्कथय । एवं च सर्वाङ्गीणसंतापापनोदकसंमुखनायकपुरतो वैमुख्यचनव्यवधानसंपादनादि प्राक्तनपापजनितमिति भावः। एवं चैतत्सर्व परित्यज्य गतभी यकमालिङ्गयेति व्यज्यते ॥ कांचित्कंचिनिग्रहीतुमुद्यतामावलोक्य तं प्रति कश्चिदन्योक्त्या वदति
इह कपटकुतुकतरलितदृशि विश्वासं कुरण किं कुरुषे ।
तव रभसतरलितेयं व्याघवधूलिधौ वलते ॥ ११२ ॥ इहेति । कपटजन्यकुतुकेन तरलिता चञ्चलतां प्रापिता। अन्यत्र स्थापितेर्थिः । एवं च न कथितपदत्वम् । दृग्ययैतादृश्याम् । इहैतस्याम् । एवं च विश्वानहत्वं ध्वन्यते । हे कुरङ्ग हरिण । एवं च ज्ञानानहत्वं ध्वन्यते। विश्वासम् । यं कुतुकासतगिति धियेति भावः । किं कुरुषे। तव रभसेन सरलतया तरलतां चलता प्राप्ता । एवं च त्वत्सरलतैव तव बाधिकेति भावः। इयं व्याघवधूः । वं च हिंसकत्वातिशयो द्योत्यते। वालधौ पुच्छे वलते संनिहिता भवति । एवं यमधुनैव त्वां निग्रहीष्यतीति नैतस्यां विश्वासो विधेय इति व्यज्यते ॥ काचिन्महत्तरनायकसङ्गगर्वभाषिणीं कांचिदुद्दिश्यान्योक्त्या कांचित्प्रति वक्ति
इह वहति बहुमहोदधिविभूषणा मानगर्वमियमुर्ती ।
देवस्य कमठमूर्तेर्न पृष्ठमपि निखिलमानोति ॥ ११३ ॥ इह वहतीति । बहूत्यन्तं महोदधिरूपं विभूषणं यस्याः सा। पले बहुमेहरो यो मह उत्सवस्खदुदधिविभूषणं यस्याः सा । यद्वा बही महोदविभूषणरूपा। क्ष्मीरिति यावत् । इयमुवीं पृथ्वी । पक्षे श्रेष्ठा । मानस परिमाणस्य । पक्षे सर्वोकृष्टताभिमानस्य । गर्वम् । इह भवत्समक्षम् । न मत्समक्षमिति भावः । पक्ष ह