________________
काव्यमाल।. व्यवायस्थैर्याय कान्तचित्तं व्याक्षेप्तुं नायिका वक्ति
इह शिखरिशिखरावलम्बिनि विनोददरतरलवपुषि तरुहरिणे । - पश्यामिलपति पतितुं विहगी निजनीडमोहेन ।। १०९॥
इति । इह शिखरी वृक्षः । 'तरुशैलौ शिखरिणी' इत्यमरः । तच्छिखरावलम्बिनि । कचित् 'शिखा' इति पाठः । विनोदेन दरमीषत्तरलं चञ्चलं वपुर्यस्य तसिंखरहरिणे शाखामृगे । अत्रोभयपदयोः परिवृत्तिसहत्वम् । विहगी निजं यनीडं स्थानम् । 'कुलायो नीडमस्त्रियाम्' इत्यमरः । तद्भमेण पतितुममिलषति । इदं पश्य । एवं च व्यवायस्थैर्यायैतादग्ध्यानं विधेयमिति व्यज्यते । उकं च'वानरं चपलं ध्यायेक्षशाखावलम्बिनम्' इति । अन्यत्रापि-शाखामृगमतिचपलं क्षितिरुहनिहितं विचिन्तयेत्प्राज्ञः । अपि मणिमुखपर्यन्तप्राप्तं बीजं हि नो गलति ॥ इति ॥ __ अन्याङ्गनाविलोकनजन्यमानवती नायिका नायको यथासिद्धकुतूहलेन प्रसा
दयति
इक्षुर्नदीप्रवाहो द्यूतं मानमहश्च हे सुतनु ।
अलतिका च तवेयं भने रसमधिकमावहति ॥ ११ ॥ इक्षुरिति । हे सुतनु, इक्षुः, नदीप्रवाहः, चूतम्, मानप्रहश्च, तवेयं धूलतिका च, भोऽधिकं रसमावहति । अत्र भारसशब्दो क्रमेण दन्तचर्वणीयत्वातिशयसेत्वादिबन्धनपराजयपरित्यागवकतामृष्टतातिशयजलाधिक्यकीडनाधिकोत्साहकषायितवनानुरागातिशयतुल्यप्रीत्यतिशयचमत्कारविशेषार्थको । एवं च त्वदीयकु टिलचकटिदर्शनेन ममाधिकं सुखमुत्पद्यत इति व्यज्यते । यद्वा तव मानप्रहः, पूलतिका चा एवं च मानभो मिथ्या भ्रूकुटिलता सुखावहा, न वास्तवकोपेन विहिवेति ध्वन्यते । 'हे' इति पदस्थाने 'ते' इति पाठे सुतनु, क्षुः, नीप्रवाहः, द्यूतं च,भोऽधिकं रसमावहति । अत्रामुकस्येति विशेषानुपादानात्सर्वस्वेत्यर्थो लभ्यते। भारसशब्दावत्र प्रागुकाौँ । ते मानप्रहो भूलतिका च भो। तरजवाचिना भापदेनाधिक्यं लक्ष्यते । तेन चौद्धयं न्यज्यते । एवं चाधिक्ये कौटिल्य इत्युभयत्रार्थः । अधिकं रस शोभोत्कर्ष तवावहति । एवं चैतादृशातिशयितमानकुटिल कुटिकरणं च तवोचिवं नान्यासामिति व्यज्यत इति सनिन्दं नायकसखी मानिनी वकीपर्यः । प्रहपदेन चावश्यप्रतीकारकरणयोग्यत्वं धन्यते॥