________________
आर्यासप्तशती।
६५ ।।। एवं च तण्डुलादि द्रवसाजायं ध्वन्यते। आवतैः । 'सादावोंऽम्भसां मः' इत्यमरः । एवं च करतलकृतचित्रसाजासं व्यज्यते । आतर्पणस्य शोभा पती कुर्वती । मुखरितं सशब्दं कृतं सलिलं जलं यया। एवं चैतद्वनिना खगाकरणतिरोधानमावेद्यते । यद्वा सलिलध्वनिमेव गानत्वेन संपादयतीत्यत्यन्तजनतिमत्त्वमावेद्यते । तच्चात्यन्तचातुरीम् । सुरसा । एवं च रसातिशयवत्वादेवैताशाचरणप्रवणत्वमिति द्योत्यते। प्रियसंगमहेतुकं मङ्गलं गायति । नायिका चेयं कीया ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेताकारव्रज्या ।
इकारव्रज्या। रात्रिसुरतश्रमसुप्तां नायिका सखी शिक्षयितुं वति
इयमुद्गति हरन्ती नेत्रनिकोचं च विदधती पुरतः ।
न विजानीमः किं तव वदति सपनीव दिननिद्रा ॥ १०७ ॥ इयमिति । इयं तव दिननिद्रा सपत्नीवोद्गतिं गमनम् । पक्षे उत्कृष्टताम् । रन्ती । नेत्रनिकोचं नयनसंकोचम् । आलस्यादिति भावः । पक्षे नेत्रविकारम् । पादिति भावः । विदधती पुरतः। तवेति भावः। एवं च त्वदीतिशून्यत्वं त्सिते । किं वदतीति न विजानीमः । एवं च यथा सपत्नी दुश्चरितवत्तामारोपयितुं म तथेयं तव दिननिद्रा, इत्यतो मुञ्चैनामिति ध्वन्यते । यद्वा नेत्रसंकोचम्, त्तिव, कुर्वती । सपन्याः प्रौढिवशाद्भयेनेति भावः । तव दिननिद्रा पुरतोऽने वदति वदिष्यति । तन्न विद्म इत्यर्थः । एवं चेदानी यथातथा समाधातुं शक्यग्रे त्वनिष्टमेवानया भावीति ध्वन्यते । नायिका चेयं परकीया ॥
इदमुभयभित्तिसंततहारगुणान्तर्गतैककुचमुकुलम् ।
गुटिकाधनुरिव बालावपुः स्मरः श्रयति कुतुकेन ॥१०८ ॥ इवमिति । इदमुभयमित्तावुभयपाधै संततहारगुणस्तदन्तर्गत एककुचमुकुलो मस्तिद्धालाया मुग्धाया वपुर्णटिकाधनुरिव गुटिकानमिव सरः श्रयति कुतुकेन । कक्षिकमालान्तर्गतकुचमुकुलत्वादिति भागः ... -
५ आ० स०