________________
६९
काव्यमाला
गोपी गोपस्य स्त्री । एवं च विवेकविधुरत्वं ध्वन्यते । एवमपि न प्राप्तः पारिजातवृक्षो यया सा देवे दोषं निवेशयति स्थापयति । एवं च यथा देवैः क्षीरसमुद्रमथनेन पारिजातो लब्धः स च कृष्णेन सत्यभामाया दत्तस्तर्हि मयापि क्षीरं निर्मथ्य तं संप्राप्य सत्यभामाधिकया भवितव्यमिति कृते भाण्डक्षीरमथने तदप्राप्त्या देवं निम्दति, न खमौयमिति भावः। एवं च यतो यद्भविष्यतीति निर्णयस्तत्रैव तदर्य प्रवृत्तिरुचितेति ध्वन्यते । यद्वैतस्मान्मम सुखं भविष्यति न वेसनवार्य कस्मिंश्चिदासक्तिं विधाय तदप्राप्त्या दैवविनिन्दिका काचिदन्योक्त्या वति । यत्तु पारिजातं नवनीतमित्याह तत्तथा कोषाद्यश्रवणादसम्यक् ॥ कश्चिन्नायिकासाधुत्वं खस्य सखायं वक्ति
आस्तां मानः कथनं सखीषु वा मयि निवेद्य दुर्विनये । शिथिलितरतिगुणगर्वा ममापि सा लज्जिता सुतनुः ॥१०५॥ आस्तामिति । निवेदितुं योग्यो दुनियो यस्तैतादृशेऽपि मयि सति । एवं चावश्यकथनीयत्वमपराधे ध्वन्यते। मान आस्ताम् । न कृत इत्यर्थः । न केवलं मानासंपादनम् । अपि तु सखीषु । सखीपदं कथनार्हतां द्योतयति । कथनं वा। मदपराधस्येति भावः । न कृतमित्यर्थः । शिथिलितो रतिसंबन्धिगुणानां गर्वो यया सा सुतनुर्मम लज्जिता । एवं च यदि मयि गुणाः स्युस्तदानेनान्यत्रासतिः कयं कर्तु शक्येति धिया संजातलज्जा मा प्रत्यभूत् , अतो न मानमकरोत्, न वा सखी. प्वकथयदिति भावः । अथवा सापराधत्वेन मम लम्बायोग्यत्वेऽपि सैव खस्मिन्गुणाभावशङ्कया सलज्जा न मानादिकमकरोदिति भावः । अथवा ममापीति यथास्थित एवापिः । एवं चान्यं प्रति लबाकरणादीति किमपूर्वमिति भावः । यद्वा निवेदयितुं योग्यो मय्येव मदीयो दुर्विनयः । सोऽपि लबया मां प्रत्यपि नोकसत्र का वार्तान्यकथनादेरिति भावः॥
काचित्प्रियागमनोत्सवनैमित्तिक तण्डुलाधुज्वलपिष्टद्रवलिप्तकरतलादिना चित्रकरणमझलगानरूपमातृतर्पणविधानमन्यजनमीत्या मानावसर एवावर्तादिच्छपना करोतीति काचित्वांचिदकि
आवसतर्पणशोभां डिण्डीरपाण्डुरैर्दघती। गायति मुखरितसलिला प्रियसंगममङ्गलं सुरसा ॥ १०६ ॥ आवतैरिति । डिण्डीरपाण्डुरैः फेनश्वेतैः । 'डिण्डीरोऽन्धिकफः फेनः' इत्य