________________
आर्यासप्तशती। वेति काचितीमुपालभते । अथवा खार्थपुरःसरतयैतादृशं कर्तुं शक्यमिति कां. दन्योक्त्या वदति ॥ किं त्वयैतादृशमकारि येनायमधुनान्यादृशं वत्तीति वादिनी सखी नायिका वक्ति
आसीदेव यदाः किमपि तदा किमयमाहतोऽप्याह । निष्ठुरभावादधुना कटूनि सखि रटति पटह इव ॥ १०२ ॥ आसीदिति । अयं नायको यदाई एव मद्विषयकरसवानेवासीत्तदाहतोऽपि मपि किमाहावादीत् । नेत्यर्थः । अयमेवेति योजना वा । एवं च सर्वमेतत्तवैव यक्षमिति व्यज्यते । 'एषः' इत्यपि पाठः। सखि, अधुना निष्ठुरभावात्प्रेमाभात् । पक्षे शुष्कत्वात् । कटूनि रटति पटह इव । 'आनकः पटहोऽस्त्री' इत्यमरः । वं च न ममापराधः, किं त्वयमेव निष्ठुरत्वादेतादृशं वतीति ध्वन्यते। पटहोऽगर्दस्ताडितो न शब्दं जनयति, शुष्कस्तु जनयति तद्वदिति भावः॥ त्वचेष्टितमिदमाकर्ण्य नायिका त्वां किं किं न करिष्यतीति वादिनी नायिकाखीं नायको वकि
आज्ञाकरश्च ताडनपरिभवसहनश्च सत्यमहमस्याः ।
न तु शीलशीतलेयं प्रियेतरद्वक्तुमपि वेद ॥ १०३ ॥ आशाकर इति । यद्वा यदि त्वमेतस्याः सर्वदाज्ञाकार्यसि तहीयं कथं मुखरा विष्यतीति वादिनी नायको वक्ति। आज्ञां करोत्येतादृशः । ताडनम् , परिभकखरस्कारः। ताडनापेक्षया तिरस्कारे दुःसहत्वं ध्वन्यते । यद्वा ताडनजन्यपरापः । एवं च वचनजन्यपराभवस्याकिंचित्करत्वं व्यज्यते । एतत्सहनः। अस्या गायिकायाः । दूरस्थत्वेऽपि प्रत्यक्षवनिर्देशेन सर्वदा तद्गतमनस्कत्वं तेनान्यादृशावरणाभावो व्यज्यते। अहमस्मि । शीलेन खभावेन शीतला सौम्या । एवं च खभावस्य दूरीकर्तुमशक्यत्वेन मदपराधनिवेदकस्य वृथा श्रमवत्तेति व्यज्यते । तेन बया तत्र न किमपि वाच्यमिति । इयं प्रियेतरदप्रियं वक्तुमपि । एवं च कर्तुं नेति केमु वाच्यमिति भावः । न वेद ॥ एतस्मादिदं भविष्यति न वेत्यविचार्य कार्यकारिणमन्योल्या कश्चिद्वति
आधाय दुग्धकलशे मन्थानं श्रान्तदोर्लता गोपी। अप्राप्तपारिजाता देवे दोषं निवेशयति ॥ १० ॥ आधायेति । दुग्धस्य कलशे पात्रे मन्यानमाधाय श्रान्त दोलता यहा सा