________________
६२
काव्यमाला।
दुःसा । पक्षे धर्मसंबन्धी क्लेशो यया। खमात्मानं प्रकाशयन्ती मां सुतनु हरसि खाधीनतां नयसि । वातप्रतीच्छनपटी वातानुकूलगमनजनकं वस्त्रं वहिनमिव नावमिव । वहित्रपदेन सहनशीलत्वमावेद्यते । एवं च त्वदर्शनेनाहमितः सत्वरमागत एवेत्यवेहीति व्यज्यते ॥
केषांचिदाश्रयेण कंचिदपकर्तुमुद्यतं कश्चिदन्योक्त्या वक्ति
आयासः परहिंसा वैतंसिकसारमेय तव सारः । त्वामपसार्य विभाज्यः कुरङ्ग एषोऽधुनैवान्यैः ॥ १०॥ आयास इति । हे वैतंसिकस्य मासिकस्य । एवं चैतस्य मांसदानमशक्यम्मति व्यज्यते । 'वैतंसिकः कौटिकश्च मासिकश्च समं त्रयम्' [ इत्यमरः] । सारमेय कुकुर । आयासः श्रमः, परस्य हिंसा प्राणनिर्गमफलको व्यापारः, तव सारः सारभूतम् । नान्यदिति भावः। एतदेवाह-वामपसार्य दूरीकृत्य । बलात्का. रादिति भावः । एष कुरजो हरिणः । एवं च कृपाहत्वं ध्वन्यते । अधुनैव । एवं च पश्चात्प्रतीकाराभावो व्यज्यते । अन्यैर्मासिकानुयायिनिर्विभाज्यः । विभज्य ग्राह्य इत्यर्थः । एवं चैतादृशानुचितकार्यकरणे तव न किंचित्फलम् , प्रत्युत दुःखादीतीदृशं न विधेयमिति व्यज्यते ॥
कथन कस्यचिदने कस्यचिद्दौत्समन्योक्त्या वक्ति
आनयति पथिकतरुणं हरिण इह प्रापयन्निवात्मानम् ।
उपकलमगोपि कोमलकलमावलिकवलनोचरलः ॥ १०१ ॥ आनयतीति । कोमला ये कलमास्तेषामावलयस्तासां कवलन उत्तरल उत्कण्ठितो हरिण आत्मानं प्रापयनिव । न वास्तवमित्यर्थः । एवं च धूर्तत्वं व्यज्यते । पथिकतरुणम् । पथिकपदेन विरहखिन्नत्वं द्योत्यते।तरुणपदेन कलमगोपिकास्पृहणीयत्वं व्यज्यते । कलमाः शालिविशेषास्तद्रक्षणकाः सविधे आनयति प्रापयति । एवं च कलमगोपिकायाः पयिकतरुणासको खयं कलमभक्षणं सुखेन करिष्यामीति धियेति भावः । एवं च खार्थप्रवणतयानेनैतस्या दौत्यं क्रियत इति व्यज्यते । यद्वा सृगोऽपि खार्थमेतादृशं कर्म कर्तु जानाति, तत्र किं वाच्यं मनुष्यरूपायाखवेति । नाहमिदं कर्म जानामीति वादिनी कांचन प्रलोभनपुरःसरं काचिद्वकि । यद्वा यस्या एव खार्थेच्छा सैव मदीयं दौलं करिष्यतीति काचित्कांचिहूती बकि । अथवैतमे. तस्या दर्शयित्वासफिमुत्पाद्रुतस्या धनमनेन भुज्यत इति कश्चित्वांचिद्वति । यद्वा मृगेणापि गोषिकाकळमभक्षणेन तरुणसंगमरूपोपकारस्तस्याः क्रियते, त्वया दुन