________________
आर्यासप्तशती।
६१
सहते, नान्ययैवं सत्यमिति खसख्यासक्तिर्नायके तस्य चेतरनायकाधिक्यं व्यज्यते। तेन तथाविधायां तस्यां तवैतादृशाचरणमनुचितमिति ॥
काचिन्नायिका नायकं प्रत्यन्योक्त्या वक्ति
आखादितोऽसि मोहाहत विदिता वदनमाधुरी भवतः ।
मधुलिप्तक्षुर रसनाच्छेदाय परं विजानासि ॥ ९७ ॥ आखादितोऽसीति । मधुलिप्तपदेनोपरितना माधुर्यवत्ता व्यज्यते । धुरपदेन क्षतजननयोग्यत्वं ध्वन्यते। मोहाड्रमादाखादितोऽसि । भवतो वदनस्य माधुरी विदिता । बत खेदे। एतदेवाह-रसनाच्छेदाय परं विजानासि । एवं च केवलं वदनमाधुर्यमात्रेण परकीयं वाक्प्रसरं खण्डयित्वान्तौथ्यं करोषीति व्यज्यते। यद्वा प्रीत्यारम्भ एवैतादृशं त्वया कृतम् , अतोऽग्रे त्वत्संगतिरत्यन्तदुःखदैव भाविनीति नातस्त्वत्संगतिमहं विधास्य इति व्यज्यते ॥
अनासादितनायकरसां सामान्यवनितां सखी वक्ति
आकृष्टिभमकटकं केन तव प्रकृतिकोमलं सुभगे।
धन्येन भुजमृणालं ग्राह्यं मदनस्य राज्यमिव ॥ ९८॥ आकृष्टिरिति । आकृष्ट्या । अवलम्बनेनेत्यर्थः । पक्षे विमर्दैन । भग्नं कटक वलयम् । पक्षे सैन्यम् । यस्याः । एवं चावलम्बनमात्रेण भजनार्हत्वप्रतिपादनेन, वलयेऽतितनीयस्त्वद्योतनेन, कामिन्यामतिकोमलाङ्गीत्वं द्योत्यते । प्रकृत्या खभावेन । पक्षे प्रजामिः । कोमलं मृदु । पक्षे सौम्यम् । सुभगे सौभाग्यशालिनि तव भुजमृणालम् । खभावकोमलत्वेऽपि मृणालरूपत्वप्रतिपादनेनातिकोमलत्वं ध्वन्यते । यद्वा संतापनोदकत्वमात्रमत्र केन धन्येन ग्राह्यम् । मदनस्य राज्यमिव । एवं च यस्य तव पाणिस्पर्शो भविता स मदनमहीपतिरेवेति न्यज्यते। तेन च त्वं रतिरूपेति । यद्वा बलादाकृष्टकरां सामान्यवनितामवलोक्य तत्सखी वति । भमकटकमित्यनेन वलयार्थमेतस्माद्वसु प्रात्यमिति व्यज्यते । धन्येन पनवतेत्यर्थः । केन सुखेन प्राह्यम् । एवं चान्येन न ग्रहीतुं शक्यमिति भाव इत्यर्थः । अविवाहितां कांचित्काचिद्वतीयपि ॥ कश्चित्कांचिद्वक्ति
आरुह्य दूरमगणितरौद्रकेशा प्रकाशयन्ती खम् । . वातप्रतीच्छनपटी वहित्रमिव हरसि मां सुतनु ॥ ९९ ॥ . आरोति । दूरमारुख । प्रासादशिखरमिति भावः। अगणितो रोद्रो