________________
काव्यमाला।
चिरविरहखिमां नायिका समाधत्त इत्यर्थः । केचितु ब्रीडाकरसंस्थानसादृश्यावधारणेन सामान्यवनितामुपहसति कश्चिदित्याहुः । यत्तु नायिकाचित्तव्याक्षेपपरमिदमिति तत्केनापि नायिकाचित्तव्याक्षेपासंपादनाद्वात्स्यायनादिमिरकथनाचानुचितमित्याभाति । एवं 'दरफुडिअ' इत्यादिप्राकृतगाथापि योज्या ॥ . कश्चित्कंचित्प्रति वक्ति
आभङ्गरामबहुगुणदीर्घाखादप्रदा प्रियादृष्टिः ।
कर्षति मनो मदीयं हृदमीनं बडिशरज्जुरिव ॥ ९५ ॥ आभङ्गुरेति । आभङ्गुराग्रा कुटिलकटाक्षा, बहुगुणा वशीकरणतादिशालिनी । यद्वार्जुनकृष्णरक्तरूपशालिनी । दीर्घा कर्णान्ते प्रसरणशीला, आखादप्रदा सुखदा, प्रियादृष्टिः। पक्षे कुटिलापा, बहुतरसूत्रैमहत्तरा । यद्वा बहुतन्तुमयी। लम्बायमाना, मधुरवस्तुदात्री । एवं च मोचनायोग्यत्वम् , दृढत्वम् , दूरतोऽपि कार्यसंपादकत्वम्, अवश्यं जनलोभनीयत्वं च क्रमेणोभयत्र ध्वन्यते। मदीयं मनः कर्षति । एवं च न ममापराध इति भावः । हृदमत्स्यम् । हृदपदेन खस्मिन्गाम्भीर्यमावेद्यते । बाडेशरजुरिव । 'बडिशं मत्स्यवेधनम्' इत्यमरः । एवं च यथा बडिशरज्ज्वाकृष्टमत्स्यस्य हृदावस्थितिरसंभाविनी तथा प्रियादृष्ट्याकृष्टस्य मचेतसोऽप्यवस्थितिरिति न्यज्यते । तेन च ज्ञानशून्यत्वं तेनापि त्वदुपदेशापात्रमहमिति ॥ नायिकासखी नायकं वकि
आलप यथा यथेच्छसि युक्तं तव कितव किमपवारयसि ।
स्त्रीजातिलान्छनमसौ जीवितरङ्का सखी सुभग ॥ ९६ ।। आलपेति । यथा यथेच्छसि तथालप त्वन्मनसि यदायाति तद्यथेष्टं वद । वाच्यावाच्यविचार मा कृथा इति भावः । इदं युक्तं तव । न ममेति भावः । यद्वा नान्यस्य समीचीनस्य । कितव धूर्त । एवं चैतादृशवक्तृतायोग्यत्वं तवेति भावः । किमपवारयसि गोपयसि । दुष्टो नेति वदसीति भावः । यद्वा यथा समाधातुं शक्यं यथा वचनरचनां कुरु । एवं च तत्र नास्माकमास्थेति भावः । एवं च गोपनेन किं सर्वमेवारमामिस्त्वद्वृत्तं ज्ञायत इति व्यज्यते। स्त्रीमात्रकलभूतेयं सत्सखी । एवं चान्यामिनैवंविधं सोढुं शक्यमिति भावः । जीवितार्थ रका दीना। एवं च त्वदनालोकनेन तस्या मरणमेव भावीति भावः । सुभग । कथमन्यथेशप्रियाप्राप्तिरिति भावः । एवं चेयं जीवितमात्रामिलाषिणी त्वदीयमेतादृशदुश्चेष्टितं