________________
आर्यसतरती।
अवकेशी निष्फलः । 'वन्ध्योऽफलोऽवकेशी च' इत्यमरः । आखामिद वरम् । अत्र हेतुमाह-एतस्मात्फलितात्केवलम् । एवं चान्यफलमाव इति भावः। उद्वेगमर्यादि फलम् । क्रमुक इत्युपक्रम्य 'अस्य तु । फलमुद्वेगम् इनमः। अधिगच्छ जानीहि । एवं चैतस्याधिकारे संपादिते तवोद्वेग एव भविष्यतीवि. दुष्टावलम्बनपुरःसरारब्धकार्यस्यावश्यमनर्थजनकत्वमिति कश्चिदन्योक्त्या वकि
आरब्धमब्धिमवनं खहस्तयित्वा द्विजिह्वममरैर्यत् ।।
उचिततत्परिणामो विषमं विषमेव यज्जातम् ॥ ९२॥ आरब्धमिति । अमरैर्देवैः । एवं चैतादृशोद्योगशालित्वं युक्तमित्यावेक्ते । यद्विजिह्र सर्पम् । पक्षे तात्कालिकान्यथावादिनम् । स्वहस्तयित्वा खकरे विधाय। पक्षे खाधीनीकृत्य । अब्धिमथनमारब्धं तस्य परिणाम उचित एव यद्विषमम् । दाहकत्वादिति भावः । विषं जातमुत्पन्नम् । एवं च यथा द्विजिह्वावलम्बनेन समुद्रमथने विषमभवत्तथा दुष्टावलम्बनेनारब्धकार्यपरिणामेऽसम्यगेव फलं भावीति व्यज्यते । यथास्थितैवकारयोजनं त्वन्यफलोत्पत्तिश्रवणादसमञ्जसम् । यद्वामराणामप्येतादृशावलम्बनपुरःसरारब्धकार्य एतादृशमभवत्तत्र का वार्तान्यस्येति व्यज्यते॥
आवर्जितालकालि श्वासोत्कम्पस्तनार्पितैकभुजम् ।
शयनं रतिविवशतनोः स्मरामि शिथिलांशुकं तस्याः ॥१३॥ आवर्जितेति । आवर्जिता संयमिता केशपकिर्यत्र, श्वासैरुत्कम्पो यो स्तनौ तयोरर्पित एको भुजो यत्र, शिथिलमंशुकं यत्र, रत्या विवशा खानधीना तनुर्यस्यास्तस्याः । एवं च निःसहाङ्गत्वं ध्वन्यते । शयनं स्मरामि । सुरतश्रान्तनायिकाखापवर्णनमेतत् ॥ नायको नायिका वक्ति
आम्राकुरोऽयमरुणश्यामलरुचिरस्थिनिर्गतः सुतनु ।
नवकमठकपरपुटान्मूर्धेवोवं गतः स्फुरति ॥ ९४ ॥ आनेति । चूताङ्कुरोऽरुणश्यामला रुचिदीप्तिर्यस्य । अस्थि कर्कशोपरिभागः । वतो निःसृतः । हे सुतनु स्फुरति । नवो नूतनो यः कमठस्तस्य यत्कर्परपुटं पृष्ठास्थि तस्मादूर्व निःसृतो मूर्धेव । एवं चाम्राकुरोत्पत्तिकथनेन, कमठार्भकमारगेन, प्रावृट्कालागमनोपन्यासेन, नेदानीं ते मानविधानमुचितमिति व्यज्यते । महामारोऽयमित्यादिना प्रावटप्रादुर्भावशंसनेनावश्यं पतिस्ते समायास्थतीति सखी