________________
काका न मुषितास्मि । अपि तु मुषितास्मि । पक्षेऽसुरेवाशुकतं किरणमपि वोढुं नशनासमर्थेन । इयन्तमाह-वराटकेन केपर्दैनार्थीव याचक इव । एवं च पश्चादागीयकिरणशून्येन सच्छिद्रेण कपर्दैन यया याचको मुषितो भवति तथाकस्सिकपश्चादागमनशालिना मानावसानसमये जघनांशुकग्रहणेऽपि हतचित्ता जातेति भावः । गौडदेशे पृष्ठभागच्छिद्रवता कपर्दैन व्यवहरन्ति तदभिप्रायेदम् । यद्वानवेक्षितपृष्ठेन खपश्चाद्भागानवलोकनेन । एवं च मीतिशून्यत्वेन विहलत्वं व्यज्यते । जपनांशुकमपि वोढुं नशकेन । एवं च विरहक्षीणतया वाससि रूपत्वं ध्वन्यते । एतादृशेन मुषितास्मि । एवं च तथाविधतदीयासचिमालोच्याहमपि तन्निमनमनस्का जातास्मीति नायिका वकीत्यर्थः । अन्योऽपि चोरः पृष्ठतः समागत्य लुण्ठनं करोति यथा जघनांशुकमपि न भवतीति लौकिकम् । नशकेनेति वचनात्तथा मुषितामि यथा जघनांशुकमपि वोढुमसमथैवेत्यवधारणार्थक इवशब्दः ॥
प्रणयकोपमवलम्ब्य सुप्तां नायिका प्रति सखी वक्ति
आकुञ्चितैकजई दरावृतोवोरु गोपिता|रु ।
सुतनोः श्वसितक्रमनमदुदरस्फुटनामि शयनमिदम् ॥ ८९ ॥ आकुञ्चितेति । आकुञ्चितैका जशा यस्मिन् , दरमीषदावृत ऊर्ध्वमूर्यत्र, गोपितोऽत्यन्तमाच्छादितोधोऽयंत्र, श्वसितक्रमेण नमद्यदुदरं तेन स्फुटा नाभिर्यत्र । क्रियाविशेषणान्येतानि । सुतनोरिदं शयनम् । 'स्थानिद्रा शयनम्' इत्यमरः । एवं च त्वमेवेनां प्रसादयेति व्यज्यते । यद्वा सुरतश्रान्तशयनजातिवर्णनमेतत् ॥ सखी नायकं प्रति नायिकासक्तिविशेषमाह
आदाय धनमनल्पं ददानया सुभग तावकं वासः । मुग्धा रजकगृहिण्या कृता दिनैः कतिपयैनिःखा ॥ ९० ॥ आदायेति । अनल्पं बहु द्रव्यमादाय गृहीत्वा तावकं वासो वस्त्रं ददानया रजकगृहिण्या । एवं च संसारनिर्वाहकत्वं तस्या इति भावः । मुग्धा सुन्दरी, मूढा च । कतिपयर्दिननिःस्खा विगतद्रव्या कृता । एवं च वसनदर्शनमात्रेण धनव्ययमपि न गणयति, तत्र का वार्ता त्वदनसङ्ग इति व्यज्यते ॥ कस्यचिद्दुष्टस्याधिकारदापनाय प्रयत्नशालिनं प्रति कश्चिदन्योक्या वकि
आस्तां वरमवकेशी मा दोहदमस्य रचय पूगतरोः ।
एतस्मात्फलितादपि केवलमुढेगमधिगच्छ ॥ ९१ ॥ भास्तामिति । अस्य पूगतरोर्दोहदम् । फलजननार्थमिति भावः । मा रचय।