________________
आर्यासप्तशती।
५७ नायको नायिका वक्ति
आक्षिपसि कर्णमक्ष्णा बलिरपि बद्धस्त्वया त्रिधा मध्ये ।
इति जितसकलवदान्ये तनुदाने लजसे सुतनु ॥ ८६ ॥ आक्षिपसीति । हे सुतनु, अक्ष्णा नेत्रेण कर्ण श्रवणम् , राधेयं च । आक्षिपसि स्पृशसि, तिरस्करोषि च । त्वया बलिरपि त्रिवली । बवयोरेक्यात् दैत्यश्च । मन्ये त्रिधा बद्धः । त्रिधेत्यनेनात्यन्तं निर्जितत्वं द्योत्यते । त्रिवलीवाचकस्य वलिशब्दस्य पुंस्त्वं श्लेषानुरोधानिरङ्कुशत्वाद्वा । इत्यमुना प्रकारेण जिताः सकला वदान्याः प्रदातारो यया तत्संबुद्धिः । तनुदाने शरीरदाने, खल्पदाने च । लबसे। एवं चात्यन्तौदार्यशालितया तव तनुदानमपि तनुदानमेवेति ध्वन्यते। तेन चैतहाने विलम्बो न विधेय इति भावः ॥ कस्यचिदत्यन्तनायिकासक्ति कश्चिद्वक्ति
आक्षेपचरणलङ्घनकेशग्रहकेलिकुतुकतरलेन । - स्त्रीणां पतिरपि गुरुरिति धर्म न श्राविता सुतनुः ॥ ८७ ॥
आक्षेपेति । आक्षेपस्तिरस्कारः, चरणलङ्घनं चरणाहतिः, केशग्रहः, एतेषां यत्केलिकुतुकं तत्र तरलेन समासक्तेन स्त्रीणां पतिर्गुरुरिति धर्म श्रावितापि न । एवं व साहजिकधर्मचर्यायामपि नैतदुदीरितं तत्र नोपदिष्टमिति किमु वाच्यमिति भावः। एवं चैतच्छ्वण आक्षेपादि न विधेयं त्वयेति भीतिव॑न्यते। तेन चात्यन्तकेलिलम्पटत्वम् । श्वशुरादिसमुच्चायको यथास्थित एवापिशब्द इति ऋजवः ॥ नायिका नायकाकस्मिकसङ्गं सखीं वक्ति___ आगच्छतानवेक्षितपृष्ठेनार्थी वराटकेनेव ।।
मुषितासि तेन जघनांशुकमपि वोढुं नशक्तेन ॥ ८८ ॥ आगच्छतेति । हे सखि, अनवेक्षितं वीक्षणाभाववद्यत्पृष्ठं तेनागच्छतागमनवता। एवं च संमुखागमनाभावेन दर्शनाभावो व्यज्यते । पक्षेऽनवेक्षितं पृष्ठं यस्य । आगच्छतेति। हे सखि, अनवेक्षितं वीक्षणतामप्राप्तेन नायकेन जघनस्य यदंशुकं वासस्तदपि वोढुं मुषितास्म्यसमर्था जातास्मि । एवं चोत्तरीयवसनग्रहणं दूरापास्तमिति भावः । नन्वागमनसमय एव न कुतो गतं त्वयेत्यत आह-न विद्यते शको यस्मात्तेन । समर्थनेत्यर्थः । एवं च ततोऽपसरणमशक्यमिति भावः। बता