________________
काव्यमाला।
सजति । प्रकृतं वक्ति । दक्षिणा एव चतुरा एव कान्ताः प्रायेण बाहुल्येन । एवं बैका चतुरापि न हरति । तथा परक्षान्तिरिति भावः । पुरुषं हरन्ति । एवं च त्वया खचातुर्येणैव नायकः खाधीनताभाजनं विधेय इति व्यज्यते । पक्षे। कर्कटादिषड्राशिसंचरणरूपदक्षिणायने तरणेः क्रमेण सप्तपञ्चाशदष्टपञ्चाशदेकोनषष्टिषथ्येकषष्टिचतुर्विंशतिविकलासहितैकषष्टिकला इत्येवं द्रुतगतिः । मकरादिषड्राशिसंचरणरूपोत्तरायणे क्रमेण चतुर्विंशतिविकलासहितैकषष्टिषष्टयेकोनषष्ट्यष्टपञ्चाशत्सप्तपश्वाशत्कला इत्येवं मन्दगतिरिति ज्योतिर्वित्प्रक्रिया ॥ कश्चिदन्योक्त्या नायिका स्वौति
आदानपानलेपैः काश्चिद्गरलोपतापहारिण्यः ।
सदसि स्थितैव सिद्धौषधिवल्ली कापि जीवयति ॥ ८ ॥ आदानेति । काश्चिदोषध्य आदानं मन्त्रपूर्वकं ग्रहणम् , पानं गलाधःकरणम्, लेपः सर्वाङ्गसंयोगः, एतैर्गरलस्योपतापहरणसमर्थाः । काप्यनिर्वचनीया सिद्धौषधिवल्ली जीवयति । एवं च दूरतोऽपि त्वया दर्शनमवश्यं देयमिति ध्वन्यते। यद्वा. न्याङ्गनाचलाचलाकर्षणाधरपानसवाङ्गीणालिङ्गनैः संतापापनोदनसमर्थाः। त्वं केवलमवलोकिता विरहविगतासोरसुप्रदा भवसीति ध्वन्यते। तेन चान्याङ्गनाभ्योऽधिका त्वमिति स्तुतिय॑ज्यते। यद्वा तस्या दर्शनमात्रेणैवाहं जीवामीति नायिकासखों प्रत्युक्ति यकस्य ॥ नायिकासखी नायकं वक्ति
आन्दोललोलकेशी चलकाञ्चीकिहिणीगणकणिताम् । स्मरसि पुरुषायितां तां स्मरचामरचिहयष्टिमिव ॥ ८५॥ आन्दोलेति । आन्दोलनमान्दोलस्तेन चञ्चलालकाम् , चपलमेखलावद्रघण्टिकासमूहस्य क्वणितं शब्दो यस्यास्ताम् , एतादृशीं पुरुषायितां विपरीतरतकारिणी तां प्रसिद्धगुणां स्मरसीति । काका न स्मरसीत्यर्थः । एवं चैतादृशगुणशालिन्यास्तस्या यदि तवानुसंधानं भवेत्तहिं कथमन्यत्रासतिसंभावनेति भावः । स्मरस्य चामरचिहस्य यष्टिमिव । एवं च यथा चामरादिराजचिहैः सर्वैरयं राजेति ज्ञायते तथानया मदनोऽयमिति । मदनप्रसिद्धिसंपादकत्वेनातिसौन्दर्यादिगुणवत्ता नायिकायामावेद्यते ॥