________________
आर्यासप्तशती।
भिव । सूक्ष्मत्वादिति भावः। एवं च विरहातिशय आवेद्यते। खस्थमन्तरिक्षस्थम् । पक्षे निरवलम्बनम् । एवं च त्वमेव ममावलम्बनमिति व्यज्यते। त्वामवामिद सूर्यकिरणान्पिबति । एवं चाचेतनस्याप्यंशुकस्यैतादृशीं त्वामवलोक्यैतादृश्वी स्पृहा । किमु वाच्यं मादृशस्येति भावः । अथवा अचेतनांशुकमपि त्वत्समागमाय तपस्खपति तत्र का वाता सचेतनस्य ममेति भावः । अन्योऽप्यन्तरालावस्थितस्तपनकरपानमाश्रेणेव तपस्तपतीति लौकिकम् ॥ कश्चित्कस्याश्चिचेष्टां वक्ति
आरोपिता शिलायामश्मेव त्वं स्थिरा भवेति मन्त्रेण । __ममापि परिणयापदि जारमुखं वीक्ष्य हसितैव ॥ ८१ ॥ आरोपितेति । 'अश्मेव त्वं स्थिरा भव' इति मन्त्रेण शिलायामारोपिता स्थापितचरणा। परिणयो विवाहस्तद्रूपापत् । दुःखदत्वादिति भावः। आपत्पदं दुःसहत्वमावेदयति । तया ममापि जारमुखं वीक्ष्य हसितैव । एवं चैते मूर्खाः, यत्प्रथमतो मद्विवाहः कृतस्तत्रापि स्थिरत्वप्रार्थना क्रियते, नैतावता त्वया मेतव्यमिति ध्वन्यते । यद्वा परमविपत्तौ पतितापि बहुभिः 'स्थिरा भव' इति प्रार्थितापि जारमुखमवलोक्य हसनेन खस्य चिन्ताविहीनत्वं प्रदर्शयति । सा त्वं त्वद्याप्यपरिणीता किमर्थ बिमेषीति काचित्कांचिद्वति ॥ अन्याङ्गनागमनखिन्नां नायिकां नायकः समाधत्त
आयाति याति खेदं करोति मधु हरति मधुकरीवान्या।
अधिदेवता त्वमेव श्रीरिव कमलस्य मम मनसः ॥ ८२॥ आयातीति । मधुकरीवान्यायात्यागच्छति, याति गच्छति, खेदं करोति । चाश्चल्यखभावादिति भावः। एवं च तदागमने न मम सुखमिति द्योत्यते। मधु मकरन्दं हरति । उन्मादकत्वसंबन्धेन मधुपदेन द्रव्यं लक्ष्यते । एवं च न वाखवं प्रेम तस्यामिति ध्वन्यते। मम मनसोऽधिदेवता त्वमेव । कमलस्य श्रीरिव । एवं च मन्मनसि सर्वदा त्वमेव वससि । सा तु कादाचित्कागमनवतीति न त्वया मयि विधेयः खेद इति द्योत्यते ॥ सखी नायिकामुपदिशति
आसाद्य दक्षिणां दिशमविलम्बं त्यजति चोचरां तरणिः ।
पुरुष हरन्ति कान्ताः प्रायेण हि दक्षिणा एव ॥ ८३ ॥ भासाग्रेति । दक्षिणां याम्यां दिशमासाद्याविलम्ब शीघ्रं तरणिस्तरां दियं