________________
२.
काव्यमाला।
दृग्विधानं युक्तमिति प्रीत्या खाधीनता नीत्वा पश्चात्कोपकरणमुचितमिति व्यज्यते। प्रथादौ दासभा विधाय पश्चाचरणताडनं विधेयमिति लौकिकोकिरपि ॥ नायकः खस्य सखायं वक्ति
आसाद्य भङ्गमनया द्यूते विहिताभिरुचितकेलिपणे । निःसारयताक्षानिति कपटरुषोत्सारिताः सख्यः ॥ ७८ ॥
साधेति । विहिता अभिरुचिता खेच्छाविषयीभूता या केलिस्तद्रूपः पणो यस्मिन् । यस्य पराजयस्तेन जयशालिरुचिविषयीभूतसुरतं देयमेवंरूपपणवतीति भावः । द्यूते भर पराजयं प्राप्यानया नायिकयाक्षान्पाशानिःसारयतेति कपटरुषा मिथ्याकोपेन सख्य उत्सारिता दूरीकृताः। एवं चेदृशक्रीडनं न कदाप्यस्तु । अपसारयन्तु पाशानिति मिषेण सख्याधुत्सार्य प्रतिज्ञातकेलिं कुरुष्वेति मां प्रसभिव्यजितमिति व्यज्यते । तेन चैतादृशी नान्या चतुरेति भावः ॥ सखी नायिकामुपदिशति
आदरणीयगुणा सखि महता निहितासि तेन शिरसि त्वम् ।
तव लाघवदोषोऽयं सौधपताकेव यचलसि ॥ ७९ ॥ आदरणीयेति । आदरणीया गुणाः सौन्दर्यादयो यस्याः। पक्षे गुणास्त. न्तवः । महता मान्येन । पक्ष उन्नतेन । तेन नायकेन । पक्षे सौधेन । शिरसि । पक्षेऽप्रभागे। निहितासि । एवं च नायकस्तवाज्ञा सर्वदा करोतीति न तस्यापराध इति भावः । तवायं लाघवदोषः । दोषपदेन लाघवे परित्याज्यत्वं होत्यते । सोधपताकेव यच्चलस्यस्थिरचित्ता भवसि । पक्षे चलनं कम्पः। एवं चैताहशनायकं प्रति क्रोधादिना चाञ्चल्यकरणमनुचितं तवेति ध्वन्यते ॥
"एतादृशत्वदीयदर्शनेन ममासक्तिस्त्वय्यत्यन्तं समुदेति' इति कश्चिकांचिद्वक्ति । यद्वा 'त्वया तिरस्कृतस्त्वदर्थमेवाहं तपः करोमि' इति कांचित्कश्चिदाह
आर्द्रमपि खनजघनानिरस्य सुतनु त्वयैतदुन्मुक्तम् ।
खस्थमवाप्तुमिव त्वां तपनांशूनंशुकं पिबति ॥ ८० ॥ आईमिति । आईमपि । सजलत्वादिति भावः । पक्षे प्रेमवत्त्वादिति भावः । एवं च त्यागानहत्वं ध्वन्यते । स्तनजघनानिरस्य । पक्ष आलिङ्गनायदत्त्वेत्यर्थः । सुत । एवं च स्पृहणीयत्वमावेद्यते। त्वयोन्मुक्कमेतदंशुकं वनम् । पक्षेऽशुक