________________
आर्यासप्तशती।
त:' इत्यमिधानात् । हि इति निश्चयेन । अशेषतो बहिरिव । व्यजयितुं प्रकटीतुम् । असती पुंश्चली, सत्कवेः सूक्तिः, काचघटी, इति त्रयं सततं वेद । एवं | नास्माकं बहिरङ्गरागप्रकटनज्ञानमित्यावेद्यते । तेन च यत्रैव बहिरजानुरागज्ञापसामयं तत्रैव गच्छेति । प्रसादरूपगुणवत्त्वादेव सत्काव्यमिति वक्तीति कश्चित् ॥ कश्चिनायिका वक्ति
आलोक एव विमुखी कचिदपि दिवसे न दक्षिणा भवसि ।
छायेव तदपि तापं त्वमेव मे हरसि मानवति ॥ ७५ ॥ आलोक एवेति । आलोक एव दर्शन एव । पक्षे प्रकाश एव विमुखी। वं चालिङ्गनादौ किं करिष्यसीति न विद्म इति भावः । क्वचिदपि कस्मिंश्चिदपि वसे दक्षिणानुकूलगामिनी । मानवति मानिनि । पक्षे परिमाणवति । तदपि मेव मे छायेव तापं संतापम् । पक्ष आतपम् हरसि । एवं च त्वदतिरिका न मम तिरित्यवगत्याहमनुप्राह्य इति व्यज्यते ॥ कश्चित्कंचित्प्रति वक्ति
आज्ञा काकुर्यात्राक्षेपो हसितं च शुष्करुदितं च ।
इति निधुवनपाण्डित्यं ध्यायंस्तस्या न तृप्यामि ॥ ७६ ॥ आशेति । आजैवं कुर्विति, काकुर्दीनवचनम् । येनोद्दीपनादि भवतीति भावः । च्यामुकं मह्यं देहीति, आक्षेपः कथमिदं कृतमिति, हसितम् । आनन्दाविर्भावाति भावः। शुष्करुदितम् । खस्मिन्नसामर्थ्यव्यञ्जनायेति भावः । इति तस्या मधुवनं सुरतं तत्संबन्धि पाण्डित्यं ध्यायन तृप्यामि । एवं चैतादृशकेलिकलाप्रापिण्यमन्यत्र नास्तीति व्यज्यते। तेन चैतादृशनायिकासुरतध्यानं समुचितमिति ॥ कांचिन्मानिनी सखी समाधत्ते
आज्ञापयिष्यसि पदं दास्यसि दयितस्य शिरसि किं त्वरसे ।
असमयमानिनि मुग्वे मा कुरु भमाङ्करं प्रेम ॥ ७७ ॥ आशापयिष्यसीति । आज्ञां करिष्यसि । एवं च नायके स्वाधीनता भविति ध्वन्यते । न केवलमाज्ञाकारित्वम् , अपितु प्रणिपातप्रवणता तस्य भविष्यतीपाह-दयितशिरसि पदं दास्यसि किं त्वरसे। एवं चैतत्क्रमेण विधेयमिति भावः। ग्धे अत एवासमयमानिनि, प्रेम भमाङ्करं मा कुरु । एवं च दृढे प्रेम्णि सर्वमेता