________________
काव्यमाला।
गुजारूपो यो गुणः। शोभोत्कर्षजनकत्वादिति भावः । संभोगादिना गुजाहारत्रुटनादिति भावः । केदारश्चकास्ति । निजा या गोपनकी । एवं च खेदौचित्यं घोत्यते । तस्या विनयविनाशेन यदुःखं तेन विदीर्णहृदय इव । निपतितगुञ्जानामारतत्वादिति भावः। यथा खपालकस्य मुख्यवस्तुविनाशे सेवकस्य दुःखं भवति, तथा विनयस्यातिमुख्यत्वेन तन्नाशे केदारस्यातिदुःखमिति भावः। यद्वा नायिकान्यादृशचरणविज्ञानेऽप्यखिन्नां सखीमपरसखी वकि। अन्तरिति । गोपीपदेन नीचत्वं तेन च विनयव्ययेऽपि न तथा खेदाईत्वमित्यावेद्यते । केदार इत्यनेनाचेतनस्यापि खामिनीविनयव्ययेन दुःखवत्ता । तव तु सचेतनाया नेवि महदनुचितमिसावेद्यते । अत एव गुणपदम् । सहृदयमित्यर्थः ॥ परपुरुषरतानामनिवार्य दौष्ट्यमित्याह कश्चित्
अमुना हतमिदमिदमिति रुदती प्रतिवेशिनेऽङ्गमङ्गमियम् ।
रोषमिषदलितलज्जा गृहिणी दर्शयति पतिपुरतः ॥७३॥ अमुनेति । रुदती । अत एव कोपकपटेन । न वास्तवमित्यर्थः। दलिता विनाशिता लज्जा यया । अमुना नायकेनेदमिदमङ्गं हतमित्यङ्गमङ्गम् । वक्षःस्थलादिकमित्यर्थः । पतिसमक्षम् । पतिपदं रक्षणकर्तृत्वेनाप्रियत्वं ध्वनयति । प्रतिवेशिने जारभूताय । प्रतिवेशिपदं निकटवर्तितया खदुःखनिवेदनयोग्यत्वं ध्वनयति । गृहिणी । एवं च गृहकर्मव्यामृताया अप्येतादृशी गतिस्तत्रान्यवार्ता केति भावः । दर्शयति । पतिपुरतोऽप्येतादृशकर्तव्यतानिपुणाः स्त्रियो भवन्तीति सर्वथा न विश्वासस्तासां विधेय इति ध्वन्यते ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेताकारव्रज्या ।
आकारव्रज्या कचिदन्यत्र विहितकलि 'कथं न मय्यनुरागं दर्शयसि' इति वादिनं नायक नायिका वक्ति
आन्तरमपि बहिरिव हि व्यञ्जयितुं रसमशेषतः सततम् ।
असती सत्कविसूक्तिः काचघटीति त्रयं वेद ॥७१ ॥ मान्तरमिति । आन्तरमपि। इत्यपिना बहिर्व्यजनेऽतिकाठिन्यमावेद्यते। रस रागम्, श्यारादिकम् , द्रवद्रव्यं च । 'भ्यारादौ विष वीर्ये गुणे रागे द्रवे