________________
आर्यासप्तशती ।
५१
1
क्रमेण । कपोलाद्यङ्गक्रमेणेत्यर्थः । घर्माम्भः कलयति । ज्यां मौवमर्पयितुम् । सज्यां कर्तुमित्यर्थः । नमिता कुसुमास्त्रस्य मदनस्य धनुर्लता मकरन्दमिव । एवं च यथा स्था सुरतविशेषारम्भस्तथैतस्याः श्रमातिशयः । अतो मध्ये मध्ये विश्रान्तिर्देयेति वन्यते । तेन च किंचित्कालं तूष्णीमवस्थित्या पुनः पूर्ववद्दार्थं ते भावीति सोत्यते । यद्वा ज्यामर्पयितुमित्यादिदृष्टान्तव्याजेन सुखादिदानप्रवृत्तेन त्वया नैतस्याः नमो गणनीय इति व्यज्यते । अथवा मदनधनुर्लताया यथा नमनकाले मधुबि - दूद्भिरणं स्वाभाविकं तथैतस्याः सुरतकालीनस्वेदाम्भः स्वाभाविकम् । अतो न नसि त्वयैतस्याः श्रमवत्ता संभावनीयेति द्योत्यते ॥
कश्चन विरही वक्ति
असती कुलजा धीरा प्रौढा प्रतिवेशिनी यदासक्तिम् ।
कुरुते सरसा च तदा ब्रह्मानन्दं तृणं मन्ये ॥ ७० ॥
असतीति । असती । इत्यनेन स्वनिष्टप्रेमशालित्वमावेद्यते । कुलजा वंशजा । त्यनेन स्थिरप्रेमवत्त्वमावेद्यते । धैर्यवती धीरा । इत्यनेन स्थिरस्वभाववत्त्वम् । नापि तदेव । प्रौढा । इत्यनेन स्वतन्त्रत्वं तेन च संकेतकरणसमर्थत्वम् । प्रतिकेशिनी । इत्यनेन तदेव । रसशालिन्यासक्तिं यदा कुरुते तदा ब्रह्मानन्दं तृणं न्ये । एवं चैतादृशनायिका ब्रह्मानन्दवदप्राप्येर्थः ॥ चिरविरहखिन्नां नायिकां नायको वक्ति
अविरलपतिताश्रु वपुः पाण्डु स्निग्धं तवोपनीतमिदम् । शतधौतमाज्यमिव मे स्मरशरदाहव्यथां हरति ॥ ७१ ॥
अविरलेति । अविरलपतिताश्रु । चिरकालीनदर्शनादिति भावः । पक्षे जलबिन्धादिति भावः । पाण्डु । विरहादिति भावः । पक्ष उज्ज्वलरूपम् । स्निग्धं शालि । पक्षे खाभाव्यादिति भावः । उपनीतं समीपदेशे प्रापितं वपुः शतधौराज्यमिव मे स्मरशरदाहव्यथां हरति । एवं च यथा जीर्णज्वरादेर्नाशकं शतबाक्षालितं घृतं तथा त्वद्वपुर्मम चिरकालीनसंतापापनोदकम् । अतः समालिय मिति ध्वन्यते ॥
एतस्याः संभोगस्थानं केदार एवेति कश्चिद्वक्ति —
अन्तर्निपतितगुञ्जागुणरमणीयश्चकास्ति केदारः ।
निजगोपीविनयव्ययखेदेन विदीर्णहृदय इव ॥ ७२ ॥ अन्तरिति । अन्तर्निपतिता गुजाश्च गुणश्च तै रमणीयः सुन्दरः । यद्वां