________________
काव्यमाला।
दूती 'नायिका त्वय्यासत्ता' इति वैद्यं वक्ति
अगणितजनापवादा त्वत्पाणिस्पर्शहर्षतरलेयम् ।
आयास्यतो वराकी ज्वरस्य तल्यं प्रकल्पयति ॥ ६७ ॥ अगणितेति । न गणिता जननिन्दा यया। एवं च वैद्यस्य तथाविधत्वेन प्रसिद्धिरित्यावेद्यते । त्वत्पाणिना स्पर्शः। नाडीप्रदर्शनार्थमिति भावः । तेन यो हर्षखदर्थ चञ्चला । एवं च संभोगसुखार्थ किं करिष्यतीति न विद्म इति ध्वन्यते। आयास्यतो ज्वरस्यागामिज्वरस्य चातुर्थिकादेखल्पं वराकी। एवं च कृपाहत्वं व्यज्यते । प्रकल्पयति । एवं चोत्साहविशेषवत्ता द्योत्यते । नाडीविलोकनार्थ त्वदागमननिर्णयेन ज्वरागमनदुःखमपि न तया गण्यत इत्यासक्तिविशेषो ध्वन्यते ॥
एकवंशजन्यत्वेऽपि धनवत्तयैव प्रभुतेति कश्चिद्वक्ति। यद्वैकवंशजन्यत्वेऽपि कस्यचित्समृद्धिः कस्यचिन्न कश्चित्प्रधानं कश्चिदुणीभूत इति विधातुः सृष्टिविचित्रेति नात्र क्लेशादि विधेयमिति कंचन कश्चित्समाधत्ते
अप्येकवंशजनुषोः पश्यत पूर्णत्वतुच्छतामाजोः ।
ज्याकार्मुकयोः कश्चिद्गुणभूतः कश्चिदपि भर्ता ॥ ६८॥ अप्येकेति । एकवंशजयोरपि । वंशो वेणुः । पक्षे कुलम् । 'कुलत्वक्सारी बंशौ' इत्यभिधानात् । एकपदेन कारणैक्याद्वैलक्षण्यानहत्वं ध्वन्यते । स्थूलावयवबत्त्वम् । पक्षे समृद्धत्वम् । तुच्छत्वं सूक्ष्मत्वम् । पक्षे निर्धनत्वम् । तद्वतोाकामुंकयोः । अत्र 'अल्पाच्तरम्' इत्यनेन ज्याशब्दस्य पूर्वनिपातः कश्चिज्यारूपो गुणभूतः । कश्चित्कार्मुकरूपो भर्ता । 'ज्याप्रधानौ गुणो', 'धातृपोष्टारौ भर्तारी' इत्यभिधानात् । इदं पश्यत। एवं चैकवंशजत्वेऽपि यस्मिन्पूर्णत्वं स एव भर्ता, नान्य इति व्यज्यते । यद्वैकवंशजन्यत्वेऽपि दैवाधीनतया कस्यचित्समृद्धिप्रभुत्वे कस्यचिदसमृद्धत्वाप्रधानत्वे इति नात्र खेद उचित इति ध्वन्यते । अथवाचेतनेऽपि गुणप्राधान्येनैव लक्षातिः । अतो भवद्भिरप्यनयैव रीत्या स्थयम् । न तु सर्वप्राधान्येनेति परस्पराहकारशालिनां समाधानमिदम् ॥ नायिकासहचरी नायकं वक्ति
अभिनवकेलिकान्ता कलयति बाला क्रमेण धर्माम्भः ।
ज्यामर्पयितुं नमिता कुसुमावधनुर्छतेव मधु ॥ ६९॥ अभिनवेति । अनुतसुरतश्रान्ता बाबा एवं च कोमलजीत्वमावेयते।