________________
आयोसप्तशती।
नायको नायिका प्रति वक्ति
अम्बरमध्यनिविष्टं तवेदमतिचपलमलघु जघनतटम् ।
चातक इव नवमनं निरीक्षमाणो न तृप्यामि ॥ ६४ ॥ अम्बरेति । अम्बरमाकाशं वसनं वा । अंशुके व्योनि चाम्बरम्' इत्यमरः । तन्मध्यवर्ति । अतिचपलं रतव्यापारविशेषत्वात् । पक्षे खभावात् । अलघु महत् । तवेदं जघनतटं नवमनं मेघं चातक इव निरीक्षमाणो न तृप्यामि । एवं च चिरतरपिपासाव्याकुलस्य चातकस्य नूतनमेघदर्शनेन तृप्तिस्तथातिविरहखिन्नस्य मम तव जघनदर्शनेन तृप्तिरिति व्यज्यते । तेन चात्यन्तस्पृहावानहमस्मीति व्यज्यते ॥
अयमन्धकारसिन्धुरभाराकान्तावनीमराक्रान्तः।
उन्नतपूर्वाद्रिमुखः कूर्मः संध्यासमुद्रमति ॥ ६५॥ अयमिति । अन्धकाररूपा ये सिन्धुरा गजास्तद्वारेणाकान्ता या मही तस्या भरेणाकान्तः । उन्नतं पूर्वाचलरूपं मुखं यस्य सः पृष्ठे भारातिशयेन मुखोन्नत्यमिति भावः । कूर्मः संध्यारूपं रुधिरमुद्वमति । अन्यस्याप्यत्यन्तभारवत्तया मुखालोहितं निःसरतीति लौकिकम् । एवं च प्रातःकालो वृत्तः, उपपतिर्निःसार्यतामिति सखी नायिका वक्ति । यद्वा कूर्मोऽयं संध्यारूपं रुधिरं वमतीत्युक्त्या संध्योदयापलापो द्योत्सते । नायिका चेयं रतिप्रीतिमती तस्या एवोक्तिर्नायकं प्रति । प्रातःकालीनरतावसरे नायिका नायकचित्तं व्याक्षिपतीति ऋजवः ॥ मूर्खेष्वेव मूर्खसमावेशः, न पण्डितेष्विति कश्चिद्वक्ति
अन्तर्भूतो निवसति जडे जडः शिशिरमहसि हरिण इव ।
अजडे शशीव तपने स तु प्रविष्टोऽपि निःसरति ॥ १६ ॥ अन्तर्भूत इति । जडे । मूर्खत्वात् । पक्षे जलरूपत्वात् । जडो मूर्खः । पक्षे पशुत्वात् । अन्तर्भूतः । परैर्विशिष्याज्ञायमान इत्यर्थः । निवसति । शिशिरमहसि चन्द्रे हरिण इव । अजडे पण्डिते । स तु मूर्खस्तु । पक्षेऽजडे तेजोरूपत्वादिति भावः । तपने शश्चीव प्रविष्टोऽपि कुहूदिने चन्द्रमण्डलस्य सूर्यान्तर्हितत्वमिति ज्योतिर्वित्प्रसिद्धिः । निःसरति दूरीभवति । शीघ्रमेवेति भावः ॥
४ आ.स.