________________
१८
काव्यमाला। रवत्त्वं द्योत्सते । बालाम् । एवं च तथाविधज्ञानराहिलं व्यज्यते । आशइसे । एवं च सर्वसुखसत्त्वान बालाभीतिः कर्तव्येति ध्वन्यते॥ कयोश्चिदासक्ति कश्चिद्वक्ति
अधर उदस्तः कूजितमामीलितमक्षि लोलितो मौलिः ।
आसादितमिव चुम्बनसुखमस्पर्शेऽपि तरुणाभ्याम् ॥ १२ ॥ अधर इति । अधर उदस्त उच्चतां नीतः। चुम्बनार्थमिति भावः । कूजितम् । पीडाव्यजकः खरः कृत इत्यर्थः । अक्ष्यामीलितम् । सुखाविर्भावादिति भावः । लोलितो मौलिः । परित्यजेति ज्ञापनार्थमिति भावः । नायकव्यापारपूर्वकमेते पर्यायेण व्यापाराः । इति तरुणाभ्याम् । एवं च परस्परानुरागातिशयो व्यज्यते । अस्पर्शेऽपि स्पर्शाभावेऽपि । रजोदर्शनेऽपीति वा। चुम्बनमुखमासादितमिव । एवं चैतादृशरीत्या संतोषसंपादनेनासक्तिविशेषो ध्वन्यते । नायिका परकीया ॥ कश्चित्कस्यचिदवस्थां कंचित्प्रति वक्ति
अतिरभसेन भुजोऽयं वृतिविवरेण प्रवेशितः सदनम् ।
दयितास्पर्शील्लसितो नागच्छति वर्मना तेन ॥ ६३ ॥ अतीति । अत्युत्कण्ठया। एवं च पुरोवर्तित्वेन दर्शनयोग्यत्वं ध्वन्यते । वृतिविवरेण भित्तिच्छिद्रेण । एवं च सूक्ष्मत्वं व्यज्यते । सदनम् । नायिकाधिष्ठितमिति भावः । प्रवेशितो भुजो दयितास्पर्शेनोल्लसितः पुष्टिमापनस्तेन मार्गण नागच्छति । यद्वातिसरलतया गुप्तव्यवहारेण नायिकासदनं प्रापितः । एवं च खस्य श्रमबाहुल्यं व्यज्यते । तत्सुखोल्लसितः । एवं च तदासक्तिविशेषो ध्वन्यते। तेन मार्गेण नागच्छति । एवं च महता श्रमेण नायिका प्रापितोऽयं तदासक्त्या माम. गणयित्वैव नायाति । परंतु नैतदुचितमिति व्यज्यते । इति दूती वक्ति । यद्वात्युकण्ठया। एवं चाग्रे किं भविष्यतीति विचारशून्यत्वं ध्वन्यते। वृतिविवरेण चौरादिमार्गेणापि सदनं प्रवेशितः । एवं च खतस्तथाविधधूतताविहीन इति व्यज्यते । दयितास्पर्शाल्लासित इत्यनेन तत्र चिरकालावस्थायित्वं द्योत्यते । अयं भुजो हस्तरूपः । एवं च परप्रेरणया कार्यकारित्वमावेद्यते । तेन मार्गेण नागमिष्यति । एवं चातिविलम्बकरणेन येन मार्गेणायमागतस्तेन मार्गेण गन्तुमधुना प्रतिबन्धकवशान पार्यते । अतस्त्वमेनं कयापि गत्या निःसारयेति नायिकासखीं नायकसखी वक्ति ॥