________________
आर्यासतशती। न्यस्तं यत्पशुबन्धने इत्यमरः । अर्थात्काष्ठमालम्ब्य दुर्जनमपि । अपिना दुर्जयत्वं व्यज्यते । पक्षे धान्यमर्दनस्थानम् । व्यथयन्ति ॥ दुर्जनवाक्यमतिदुःसहमिति कश्चिद्वति
अननुग्रहेण न तथा व्यथयति कटुकूजितैर्यथा पिशुनः । रुधिरादानादधिकं दुनोति कर्णे कणन्मशकः ॥ ५९॥ अनन्विति । अननुप्रहेण निरोधेन । एवं च द्रव्याद्यपहारादिद्वारा दुःखदत्वं ध्वन्यते । 'अर्थप्रहेण' इत्यपि पाठः । पिशुनः खलः । न तथा व्यथयति । तथाविधदुःखजनको नेत्यर्थः । यथा कटुकूजितैर्दुष्टवचनैः पीडयति । अत्र दृश्यन्तमाह-मशको रक्तग्रहणादधिकं कर्णे शब्दं कुर्वन्दुनोति। 'मणितं रतिकूजितम्' इत्युक्त्या कूजितशब्दः शब्दसामान्याभिधायकः ॥
प्रथमं संजातलाघवस्योत्तरकालीनगौरववत्त्वेऽपि न तदपगच्छतीति कश्चिद्वक्ति
अग्रे लघिमा पश्चान्महतापि पिधीयते नहि महिना ।
वामन इति त्रिविक्रममभिदधति दशावतारविदः ॥ ६०॥ अग्र इति । अग्रे प्रथमतो लघिमा लाघवम् । पक्षे हखत्वम् । पश्चादनन्तरं महतापि महिना गौरवेण । पक्षे दैर्येण । नाच्छाबते । एवं च नवीनातिशयितप्रतिष्टयापि न प्राक्तनाप्रतिष्ठा निराकर्तुं शक्येति भावः । अत्र दृष्टान्तमाह-दशा वतारविदः । एवं चोत्तरोत्तरप्रतिष्ठाज्ञानवत्त्वमावेद्यते । त्रिविक्रमत्वादतिवीर्घत्वमावेद्यते । वामन इति हख इत्यभिदधति । एवं च परमेश्वरस्याप्येतादृशी गतिखत्र का वार्ता मनुजस्येति भावः । एवं च तथा कर्म कर्तव्यं यथारम्भ एव प्रतिष्ठा भवतीति ध्वन्यते ॥ काचित्रवीनसपत्नीशहितां समाधते
अहे स्तनंधयस्तव चरणे परिचारिकाप्रियः पृष्ठे ।
अस्ति किमु लभ्यमधिकं गृहिणि यदाशइसे बालाम् ॥११॥ अङ्करति । अहे खनंधयो गलकः, चरणे परिचारिका दासी, पृछे प्रियः। आज्ञाकारीत्यर्षः । पक्षपाती वा । अतोऽधिकं किमु लभ्यमस्ति । 'अलब्धम्' इत्यपि पाठः । यद्वाधिक किमाशइस इति योजना । गृहिति । एवं च सर्वाधिकार