________________
२५
वेश्यासकं कंचन काचिदुपदिशति--
अविनिहितं विनिहितमिव युवतु खच्छेषु वारवामहशः।
उपदर्शयन्ति हृदयं दर्पणबिम्बेषु वदनमिव ॥ ५६ ॥ अविहितमिति । वारवामदृशो वेश्याः । एवं च नैकत्र स्थिरप्रेमशालित्वनित्यावेद्यते । खच्छेषु निर्मलान्तःकरणेषु । एवं च प्रतिबिम्बभवनार्हत्वं ध्वन्यते । युवखविनिहितं हृदयम् । प्रेमेत्यर्थः । विनिहितमिवोपदर्शयन्ति । दर्पणखरूपेषु वदनमिव । एवं चैतासां प्रेमभ्रमेण ये समासक्ता भवन्ति तेऽत्यन्तमूढा इति द्योयते । अत्र बिम्बपदं न तथा सप्रयोजनमित्याभाति ॥ अहमस्मिन्नासतेति कथं लोकप्रसिद्धिरिति वादिनी नायिकां सखी वक्ति
अतिलजया त्वयैव प्रकटः प्रेयानकारि निभृतोऽपि ।
प्रासादमौलिरुपरि प्रसरत्या वैजयन्त्येव ॥ ५७ ॥ अतीति । अतिलज्जया द्रुततरगतेनेति भावः। यत्र यत्र तदीयकटाक्षखतोऽपसरणादिति भावः । त्वयैव । एवं च नान्यसापराध इति भावः । निमृतोऽपि केनचिदनधिगतोऽपि प्रेयान्प्रकटः ख्यातोऽयमस्यामासक्त इत्यकारि। यदियमेनं दृष्ट्वातिलजां नाटयति, तर्वयमस्यामासक इति लोकरधिगतम् , अतस्तवैवापराध इति भावः । उपरि प्रसरन्या । एवं च दर्शनयोग्यत्वं द्योत्यते । पताकयेव । प्रसादस्य देवताद्यायतनस्य मूर्धा । यद्वा तथाविधभोगाद्यभावेऽपि कथं लोकेऽसत्संगतिरभिव्यक्ता जातेति वादिनी सखी वक्ति। त्वयातिलजयैव।न तथाविधात्यन्तसंघटनेनेति भावः । उपरि प्रसरन्त्येत्यनेनान्तःप्रविष्टत्वाभावप्रदर्शनेन रताद्यपरिचित्यानन्दराहित्यं नायिकायामावेद्यते । एवं च बहिस्तथा प्रदर्शनीयं यथा न केनापि नायकीयपरिचितिलेशोऽपि ज्ञातुं शक्य इति भावः ॥ मध्यस्थावलम्बनेन संघटितवाग्भिः खलजयोऽपि सुशक इति कश्चिदकि
अन्योन्यग्रथनागुणयोगाद्वावः पदार्पणैर्बहुभिः ।
खलमपि तुदन्ति मेढीभूतं मध्यसमालम्ब्य ॥ ५८॥ भन्योन्येति । अन्योन्यप्रथनागुणः परस्पराविरोधिघटनारूपो गुणः । पहे परस्परबन्धनरज्जुः । तद्योगात् । गायो वाचः । पक्षे वृषभाः । पदार्पणैर्व्यवहार. प्रदर्शनैः । पक्षे चरणविन्यासैः । मेढीभूतमाघाररूपत्वान्मध्यस्वम् । पक्षपातविर हेण विवादनिर्णायकम् । पक्षे मध्यभूमिस्थितं मेढीभूतम् । 'पुंलि मेडिः बाहेर