________________
आर्यासप्तशती।
दुःखनिवारणसाहाय्यकारकं खनमण्डलं तथा मदनानलकदर्थितस्य ममापीदं भवविति ध्वन्यते । एवं च त्वदालिङ्गनोत्तरं मरणमपि सुखदं ममेति ध्वन्यते। तेन च राजादिमीतिशून्यत्वम् । अन्योऽपि केनचित्तिरस्कृतः प्रतीकारासमर्थः कलशादि बड़ा जले देहं त्यजतीति लौकिकम् । यद्वा ग्रीष्मनिर्जितस्य शैत्यस्य यथा त्वत्कुचकलश एव शरणं तथा मन्मथनिर्जितस्य ममापीति भावः ॥
कथमतिचिरकालेऽपि संवृत्ते शयनागारान निर्गच्छसीति वादिनी सखीं नायिका वक्ति
अलसयति गात्रमखिलं क्लेशं मोचयति लोचनं हरति ।
खाप इव प्रेयान्मम मोक्तुं न ददाति शयनीयम् ॥ ५४॥ अलसयतीति । गात्रं शरीरमलसयत्युत्थानादिव्यापारासमर्थ करोति । नानाविधसुरतेनेति भावः । पक्षे जृम्भादिजननेन विषयव्यापारासमर्थ करोति । अखिलं दुःखम् । पक्षे गृहव्यापारजन्यं श्रमम् । मोचयति । लोचनं हरति खाधीनतां नयति । खदर्शनमात्रप्रवणं करोतीति भावः। एवं च नायके सौन्दर्योत्कर्षशालिवं ध्वन्यते । पक्षे पदार्थज्ञानशून्यत्वं करोति । खाप इव प्रेयान् । एवं च निवारणानहवं व्यज्यते । पक्षे दुःखाभावसंपादकत्वेन प्रीतिविषयत्वम् । मम शयनीयं परित्यक्तुं न ददाति । एवं चैतावत्कालं नायकनैकट्यादेव विलम्बो बहिरागम इति न ममापराध इति भावः । प्रेयानिव खाप इति योजना वा । एवं च नायककार्यकारितया प्रेमविषयत्वं खापे द्योत्यते। तेन चालस्यादि खापकार्यमेवेति संगुप्तरतिकत्वम् ॥ कश्चित्कांचिद्वक्ति
अंसावलम्बिकरधृतकचमभिषेकाधवलनखरेखम् ।
धौताधरनयनं वपुरस्त्रमनङ्गस्य तव निशितम् ॥ ५५ ॥ अंसेति । स्कन्धावलम्बितकरेण धृताः। जलविमोचनार्थमिति भावः । कचा यस्मिन् । स्नानेनार्द्राः । धवलाः । लौहित्यापगमादिति भावः । नखरेखा नखक्षतानि यस्मिन् । धौताधरनयनम् । ताम्बूलरागापगमादिति भावः। कामशास्ने नेत्रचुम्बनस्य विधानात् । पक्षे निराकृतमालिन्यावयवम् । तव वपुरनगस्य तीक्ष्णं शस्त्रम् । एवं चैकोपभोगजन्यजाज्यनिरसनेनान्यसंभोगसामर्थ्यवत्ता जातेति ध्वन्यते । वपुषि निशितानशास्त्रतुल्यताप्रतिपादनेन त्वत्सङ्गासंपादनेन मन्त्राणहरणजन्यपापभागित्वं भविष्यति ववेति धन्यते ॥