________________
१४
काव्यमाला । ध्वन्यते । शब्दमात्रसाम्यात् । शर्करेति । पक्षे नायिकेति । शब्दमात्रेत्यनेनार्थदृष्टिविधुरत्वं व्यज्यते । आखादिता, न तूपभुक्ता शर्करा सिकता येन तस्य । एवं चाधुनापि विचार्य चरितव्यमिति ध्वन्यते । रसनाछेदः खल्पः पुरतोऽप्रे। 'इयं च तेऽन्या पुरतो विडम्बना' इति वदत्र समाधिः । महती। एवं चासदत्वं व्यज्यते । जनस्य । एवं च निवारणानहत्वम् । हास्यता भवित्री। एवं च तस्याः कठिनतया न संगतिश्विरावस्थायिनीति नैतावन्मात्रम्, अपि तु कथमत्सन्तानभिज्ञ इति लोकोपहासो भावीति व्यज्यते । यद्वा खनामैक्यादन्याङ्गनागृहीतदर्शनं काचिद्वक्ति । शब्दमात्रसाम्यम् । न मनिष्टगुणादेरिति भावः । रसनाच्छेद आखादविच्छेदः । नीरसेति यावत् । भाविगुणशून्यत्वज्ञानेनेति भावः । एतावन्मानं न, किंतु जनहास्यता । एवं च तस्याः पुंश्चलीत्वेन प्रसिद्धिः, न ममेति व्यज्यते ॥ सपत्नीदुःखसंतप्तां काचित्समाधत्ते
अभिनवयौवनदुर्जयविपक्षजनहन्यमानमानापि ।
सूनोः पितृप्रियवाद्विभर्ति सुभगामदं गृहिणी ॥ ५२ ।। अभिनवेति । अभिनवयौवनेन । अभिनवत्वमप्रसूतत्वादिति भावः । दुःखेन जेतुमशक्यः । यौवनसंपादनस्य दुष्करत्वादिति भावः । यो विपक्षजनः । विपक्षपदेन दुःखजननखभाववत्त्वं जनपदेन समुदायवत्तया प्रतीकारानहत्वं ध्वन्यते । तेन हन्यमानः । एवं च प्रात्यहिकेनासह्यत्वं द्योत्यते। मानो यस्याः सापि । एवं च यत्र प्रतिष्ठामात्रमपि गतं तत्र का वार्ता रतादीनामिति भावः। गृहिणी प्रथमस्त्री पुत्रस्य पितृप्रियत्वात्सौभाग्यशालिनीनां गर्व बिभर्ति । एवं च सकलसदनाधिपतिप्रायपुत्रवत्तया त्वया न किंचिदपि सपन्यवमाननं गणनीयमिति व्यज्यते॥ ___ कश्चित्मानोद्यतकामिनीकुचकलशमवलोक्य व्यञ्जनया त्वत्संगमकामोऽहमिति वति
अपमानितमिव संप्रति गुरुणा ग्रीष्मेण दुर्बलं शैत्यम् । स्नानोत्सुकतरुणीस्तनकलशनिबद्धं पयो विशति ॥५३॥ अपमानितमिति । गुरुणा प्रबलेन ग्रीष्मेणापमानितं तिरस्कृतम् । एवं च जलप्रवेशकरणमुचितमिति व्यज्यते। दुर्बलम् । एवं च प्रतीकारासामर्थ्य ध्वन्यते। मानोत्सुका या तरुणी तस्याः खनरूपकलशसंबन्धवत् । एवं च प्रीष्मे तरुणीखबयोरतिशीतलत्वमावेद्यते। अत्र निबद्धमित्यनेन प्रबलप्रीष्मक्लेशितशैत्यस्य यथा