________________
आर्यासतशती।
सोऽपि । दारिद्यादिति भावः । तव सवलभाम्यशालितरणेभ्यः शोमाधिका । एवं चैतादादयितानुरामे दारिद्यदुःसमकिपित्करम् । तदननुरागे च यौवनसंपत्ती अकिचित्करे इति व्यज्यते ॥ कवित्वस सखायं वक्ति
अर्थः प्राणित्येको मृत इतरो मे विधुतुदस्येव ।
सुधयेव प्रियया पथि संगत्यालिङ्गितार्घस्य ॥ १९॥ भर्घ इति । पथि मार्गे संगत्या प्राचीनसंबन्धेन । यद्वा मार्गविषयकसंबन्धेन। एवं च दैववशसंपन्नमेतदिति ध्वन्यते। प्रिययालिङ्गितार्धस्य । प्रियासंबन्धवदर्षस्वेत्यर्थः । आलिङ्गनपदेनैकाङ्गसंपर्केऽपि सर्वाङ्गीणानन्दतुल्यानन्दः संवृत्त इति व्यज्यते। मे सुधया विधुतुदस्यैवैकोऽ| विषमांशः । 'पुंस्यर्थोऽध समेंऽशके' इत्यमरः । एवं च राहोरसमांशमुण्डरूपस्योपमानता संगच्छते । प्राणिति । इतरो मृत एव । एवं च नान्यथा शङ्कनीयमिति भावः। एवं च प्राप्ताया अपि सुधाया दुर्दैवान संभोगो राहोतथा प्रियाया ममेति ध्वन्यते । तेन च नायिकासंबन्धानुभववत एवाङ्गस्य सार्थक्यम् , नापराणामझानामिति । तेन च नायिकाकस्पर्शसुखानुभवस्त्रजीवनमत्सन्तानर्थकमिति ॥ कठिनहृदयापि कोमलहृदया मन्नायिकेति कश्चिद्वक्ति
अवधीरितोऽपि निद्रामिषेण माहात्म्यमसृणया प्रियया ।
अवबोधितोऽस्मि चपलो बाष्पस्तिमितेन तल्पेन ॥ ५० ॥ अवधीरितोऽपीति । निद्राग्याजेनावज्ञातोऽपि । मानवशादिति भावः । एवं च ममाप्यवबोषने भीतिरित्यावेद्यते। अत एव माहात्म्येन प्रशस्तान्तःकरणतया स्निग्धया प्रियया। चपलः । एवं च खस्सिन्सापराधत्वमावेद्यते। बाष्पैः स्तिमितेनाइँण तल्पेनावबोधितोऽसि । मानं ज्ञापितोऽसि । एवं च भीत्या मम तूष्णींभावं विज्ञाय मानज्ञापनकरणेन कोमलहृदयत्वमावेद्यते ॥ कपाश्चित्किंचित्संगतिशालिनं कंचन काचिदन्योक्त्या वक्ति
अयि शब्दमात्रसाम्यादाखादितशर्करस्य तव पथिक ।
खल्पो रसनाच्छेदः पुरतो जनहासमा महती ॥५१॥ भवति। मवि पथिक, एवं सत्र बिरामवस्त्रिया कार्यशानान्यत्वं