________________
आर्यासप्तशती।
यदीयमुत्कृष्टगुणा तय॑तदीयनायकः कथमन्यानुरक्त इति वादिनी कांचिन्नायिकासखी वक्ति
अन्याखपि गृहिणीति ध्यायन्नभिलषितमामोति । पश्यन्पाषाणमयीः प्रतिमा इव देवतात्वेन ॥ १३ ॥ अन्याखिति । अन्याखप्यन्याङ्गनाखपि खगृहिणीति घ्यायन्नेव । खनायिकाभावनां कुर्वनेवेत्यर्थः। एवं च खीयाङ्गनाभावनान खप्यन्याङ्गनासु तद्भावनासंपादनप्रतिपादनान्नायिकायां रूपादिगुणशालित्वमावेद्यते । अभिलषितमानन्दम् । पक्ष इच्छाविषयीभूतमर्थम् । आप्नोति । पाषाणमयीः प्रस्तरविकाररूपाः प्रतिमा देवतात्वेन पश्यन्निव । एवं च यथा पाषाणप्रतिमासु देवताभावनया जनस्याभिलषितावाप्तिस्तथैवान्यासु नायिकासु खनायिकाभावनयैवाभिलषितावाप्तिरिति भावः । एवं च परागनासु जडत्वं ध्वन्यते । यद्वा देवतायां देवताध्यानाकरणं जडप्रतिमासु च देवताध्यानकरणमिति यथा जनस्य खभावस्तथा नायकस्याप्यन्याङ्गनाखासक्ति संपादनमिति खभाव इति ध्वन्यते। तेन च नैतस्यां गुणराहित्यमाशङ्कनीयमिति । 'आप्नोमि' इति पाठेऽन्याङ्गनासक्तिस्तवानुचितेति वादिनी नायिकासखीं नायको वति॥ गवंशालिनं नायकं नायिकासख्युपदिशति
अनुपेत्य नीचभावं बालक परितो गभीरमधुरस्य ।
अस्याः प्रेम्णः पात्रं न भवसि सरितो रसस्येव ॥ १४ ॥ अन्विति । बालक अपरिपक्वबुद्धे । नीचभावं गर्वशून्यत्वमनुपेत्याकृत्वा समन्ताद्गभीरं बहुपरिमाणं मधुरं सुखदम् । पक्षेऽगाधं मधुररसवत् । परित इत्यनेन सर्वत्र गाम्भीर्यमाधुर्यशालित्वं तेन चैतादृशस्य प्रेम्णो दुर्लभत्वं द्योत्यते । अस्याः प्रेम्णः पात्रममत्रम् । पक्षे तीरयोरन्तरम् । सरितो रसस्येव जलस्येव न भवसि । एवं च गर्व विहायैवास्याः प्रेम्णो भाजनं भवान्भवत्विति व्यज्यते । रसस्येवेत्यनेन प्रेम्णि रससंमृतत्वमावेद्यते ॥ सखी नायिकामन्योक्त्या स्वौति
अधिवासनमाधेयं गुणमार्गमपेक्षते न च प्रथनाम् ।
कलयति युवजनमौलिं केतककलिका खरूपेण ॥१५॥ अधीति । अधिवासनं संस्कारम् । यथा पुष्पादिमिलादेः। आधेयमीपा