________________
काव्यमाला।
समाधत्ते। अलमत्यर्थमलंकाराभावेन सौभाग्यशालिनि । इतरासां भूषणम् । वन्ध्यवल्लीनां पुष्पवत्त्वेऽपि फलाजनकानां प्रसूनमिव वनस्पतिलता पुष्पं विना फलजनिका । 'वानस्पत्यः फलैः पुष्पात्तरपुष्पादनस्पतिः' । त्वं निन्दाविषयं कुरुषे । एवं च नालंकरणमात्रं सौभाग्यसंपादकम् , अपि तु दयितवश्यतासंपादनसामर्थ्यम् । तच तवैवास्तीति विभूषणकरणाय विलम्बो न विधेयः । खेदो वा न मह्यमस्ति विभूषणमिति ध्वन्यते ॥ कश्चित्कांश्चिन्निन्दति
अबुधा अजङ्गमा अपि कयापि गत्या परं पदमवाप्ताः ।
मन्त्रिण इति कीर्त्यन्ते नयबलगुटिका इव जनेन ॥ ११ ॥ अबुधा इति । अबुधा ज्ञानशून्याः पण्डितभिन्ना वा । अचेतनत्वादिति भावः । अजङ्गमा गतिशून्याः । पक्ष इतस्ततः प्रेषणानहर्हाः। कयापि गत्या चालनविशेषेण । पक्षे दैववशादित्यर्थः । परं पदमाद्यपङ्किगृहम् । पक्ष उत्कृष्टस्थानम् । अवाप्ताः । नयबलस्य बुद्धिबलस्य गुटिका इव जनेन । एवं च वास्तवज्ञानशून्यत्वं ध्वन्यते। मन्त्रिण इति कीर्त्यन्ते । एवं च यथा पदातिसंज्ञकगुटिका राजपतिसदनमासाद्यामात्यव्यवहारभागिनी भवति, तद्वदेतेऽकिंचित्करा अपि पदविशेषावाप्त्यामात्यपदवीभागिन इति व्यज्यते ॥ अत्यन्ताभिमानशालिनी मत्सखीति वादिनी सपत्नीसखीं नायिकासखी वक्ति
अतिशीलशीतलतया लोकेषु सखी मृदुपतापा नः ।
क्षणवाम्यदह्यमानः प्रतापमस्याः प्रियो वेद ॥ ४२ ॥ अतीति । लोकेऽत्यन्तशीलस्य खभावस्य शीतलतया । सौम्यतयेत्यर्थः । नः सखी मृदुप्रतापा । एवं च लोके प्रतापदर्शनमनर्थकमिति भावः । यद्वा मृदुप्रतापेति खरविशेषरूपकाक्का न मृदुप्रतापेत्यर्थः । एतदेवाह-अस्या मत्सख्याः क्षणवाम्येन क्षणिककौटिल्येन । एवं च चिरकालीनवाम्यमसंभवतीति ध्वन्यते । यद्वा क्षण उत्सवे यद्वाम्यम् । प्रणयकोप इति यावत् । तेन । एवं च वास्तवमहाकोपे को वेद किं भावीति व्यज्यते । दह्यमानः प्रियः प्रतापं तेजोविशेषम् , अथ च प्रकृष्टसंतापं जानाति । एवं च यत्र यद्विधानमुपयुक्तं तत्र तदेवेयं विदधातीति द्योत्यते । यद्वा त्वत्सखी मृदुप्रतापेति वादिनी काचिद्वक्ति । एवं च नः सखी लोके मृदुप्रतापा नायकं प्रत्यभिमानशालिनी, त्वत्सखी तु नायकं प्रत्यकिंचित्करा लोके तु कोपनेति घोसते । तेन खसख्यामाधिक्यम् । यद्वा पूर्वोत्तरार्धाभ्यामुभयोकी ॥