________________
आर्यासप्तशती।
नायिका नायकं वक्ति
अगृहीतानुनयां मामुपेक्ष्य सख्यो गता बतैकाहम् ।
प्रसमं करोषि मयि चेत्त्वदुपरि वपुरद्य मोक्ष्यामि ॥ ३२ ॥ अगृहीतेति । अनङ्गीकृतानुनयां मामुपेक्ष्य । मानस्यासाध्यत्वबुद्ध्येति भावः । एवं च तासामेताइक्करणमनुचितमिति व्यज्यते। सख्यः। सुखदुःखनिरूपणारे इति भावाः । गतः । एवं च परावृत्त्यनर्हत्वं व्यज्यते । बत खेदे हर्षे च । अहमेकाकिनी । चेद्यदि मयि प्रसभं बलात्कारं करोषि तयद्याधुनैव । एवं चोत्कण्ठितत्वं ध्वन्यते । त्वदुपरि शरीरं पातयिष्ये । एवं च सखीकृतानुनयस्य मयोपेक्षितत्वात्त्वयावश्यं बलात्कारः प्रदर्शनीयः । ततश्च यथेच्छं मयापि विपरीतरतादिना क्रीडितव्यमिति व्यज्यते । अथ च मत्सख्योऽत्र न सन्तीति मत्वा यदि वलात्कार करोषि तहं प्राणान्परित्यज इति व्यज्यते ॥ सखी कंचन नायकं वनायिकाधीनं कर्तुं तस्या गुणशालित्वं भङ्गयन्तरेण वक्ति
अस्थिररागः कितवो मानी चपलो विदूषकस्त्वमसि ।
मम सख्याः पतसि करे पश्यामि यथा ऋजुभवसि ॥ ३३ ॥ अस्थिरेति । यद्वान्यनायिकासु खनायिकायाश्चातुरी प्रकटयन्ती सखी वक्ति। चञ्चलानुरागः । धूर्तः । अभिमानी। चाश्चल्यशाली । विदूषकः । “विकृताङ्गवचोवर्षास्यकारी विदूषकः' । त्वमसि । अस्थिरराग इत्यनेन मैत्र्यनहत्वम् , कितव इत्यनेन प्रतारणानिपुणत्वम्, मानीत्यनेन गर्वशालित्वेन प्रतिक्षणसमाधेयत्वम्, विदूषक इत्यनेनानेकचेष्टाशालित्वं ध्वन्यते । मम सख्याः करे पतसि यथर्जुर्भवसि तथा पश्यामि । एवं च मत्सखीगुणासकेन त्वया सर्वमपीदं परित्याज्यमिति भावः। यद्वैतादृशी मत्सखी यदेतादृशं नायकं खाधीनताभाजनं कर्तु विजानातीति भवतीभ्यो मत्सखी समधिकतरेति भावः ॥ नायिकासखी कचिद्गच्छन्तं नायकं प्रति नायिकासक्तिं वक्ति
अकरुण कातरमनसो दर्शितनीरा निरन्तरालेयम् । त्वामनु धावति विमुखं गङ्गेव भगीरथं दृष्टिः ॥ ३४ ॥ अकरुणेति । यद्वा क्रुधा गच्छन्तं नायकं ना कासखी वकि। अकरुण करुणाशून्य । यत ईदृशीमप्येनां परित्यज्य गच्छसीति भावः। कातरं मनो यस्याः। कातरपदेन कदायमागमिष्यतीति चिन्तातिशयो द्योत्सते । दर्शितं नीरमश्रु ग्या।