________________
काव्यमाला।
कयोश्चिदनुरागं कश्चिद्वति
अन्योन्यमनु सोतसमन्यदथान्यत्तटाचं भजतोः ।
उदितेऽर्केऽपि न माघस्नानं प्रसमाप्यते यूनोः ॥२९॥ अन्योन्यमिति । प्रशस्त स्रोतोऽम्बुसरणं यस्मिंस्तत्स्रोतसम् । अर्शआदि. त्वात्प्रशंसायामच । एतादृशं तटादन्यत्तटम् , अथान्यत्तटमनुलक्ष्यीकृत्य परस्पर भजतोः। एवं चैतत्तटापेक्षयान्यत्तटं प्रशस्तप्रवाहवदिति व्याजेन परस्परनिमृतसंभाषणादीच्छावतोरिति भावः । एवं च जनदर्शनशङ्कया नैकत्रावस्थितिरिति ध्वन्यते। यूनोः। एवं चैतादृशावस्थायोग्यत्वं द्योत्यते। अर्के सूर्य उदितेऽपि माघस्नानं न प्रसमाप्यते । एवं च माघस्नानस्य सूर्योदयकालीनत्वेन तदननुसंधानत्वेनात्यन्तासक्तिरावेद्यते ॥
कश्चिद्यौवनशालिनी नायिकामन्योक्त्या दुर्जनसंगतिशालिनी त्वमस्माकमनुपयुकेति वकि____ अयि चूतवल्लि फलभरनतानि विष्वग्विकासिसौरभ्ये ।
श्वपचघटकर्पराका त्वं किल फलितापि विफलैव ॥ ३० ॥ अयीति । अयि चूतवल्लि फलभरैनमिताङ्गि । पक्षे स्तनभरनताङ्गि । विष्वक्सर्वतो विसारि सौरभं सौगन्ध्यं यस्याः । पक्षे सौरभ्यं कीर्तिः । एवं च नाहमीदृश्शीति न वक्तव्यमिति भावः । श्वपचाश्चाण्डालास्तेषां घटसंबन्धिकर्पराणामङ्कश्चिह्न यस्याः। सूक्ष्मस्यापि रसालस्यैतद्दोहदेनाचिरादेव फलोत्पत्तिर्भवतीति दोहदवित्प्रसिद्धिः । एवं च चाण्डालसंबन्धादनुपयुक्तत्वमावेद्यते । पक्षे दुर्जनसङ्गशालित्वम् । फलितापि निश्चितं विफलेव । समीचीनजनोपभोगानहत्वादिति भावः ॥ प्रतिष्ठापुरःसरं खल्पमपि जीवनं समीचीनमिति कश्चिद्वक्ति
अञ्जलिरकारि लोकै निमनास्त्वैव रञ्जिता जगती ।
संध्याया इव वसतिः खल्पापि सखे सुखायैव ॥ ३१ ॥ अञ्जलिरिति । लोकैरञ्जलिरकारि। अर्घदानार्थमिति भावः । पक्षेऽजलिकरणेन लोक आज्ञाकारित्वं ध्वन्यते । म्लानिर्निस्तेजस्कत्वम् । पक्षेऽसामर्थ्यम् । जगती रजितारक्तता नीता । पक्षेऽनुरागवती कृता । एवं च लोकस्यानुद्वेगदायित्वं ध्वन्यते । संघ्याया इव खल्पापि वसतिरवस्थितिः सुखायैव । न दुःखायेत्यर्थः । संध्यासमयस्थितेरचिरावस्थायित्वादिति भावः । एवं चैतद्विलक्षणजीवनान्मरणमेव वरमिति द्योत्यते ॥