________________
आर्यासप्तखती।
दृश्य एव दुष्प्रापे । एवं चैतद्विदेशगमने न तथा दुःखं यचैतदत्रलान्याशाचरणेनेति भावः । यद्वा काचित्कथमियन्ति विरहदिनान्यतिवाहितानि, अधुनैचागतमेनमवलोक्य विकलैब जातासीति वादिनी सखी वक्ति। प्रिये, न तु पतिमात्रे । न तथा व्यथा। एवं चानयनपथेऽपि दुःखमस्त्रीति भावः। एवं च निकटवर्तिनायकाप्राप्तौ नायकीयविदेशगमनादपि दुःखातिशयो ध्वन्यते । अत्र दृष्टान्तमाहनिशि तपनशिला केवलं म्लानैव वासरे ज्वलति ॥ सखी नायिका शिक्षयति
अविभाव्यो मित्रेऽपि स्थितिमात्रेणैव नन्दयन्दयितः ।
रहसि व्यपदेशादयमर्थ इवाराजके भोग्यः ॥ २७ ॥ अविभाव्य इति । मिऽपि । किमु वाच्यं शत्राविति भावः। यदा सूर्ये । विभावना)ऽपि न । एवं च रात्रावेव द्रष्टव्य इति भावः। स्थितिमात्रेणैव नन्दयन् । एवं चोपभोगायभावो व्यज्यते । दयितो नायकः । पक्षे प्रीतिविषयः । रहसि । एवं च जनसंचारायोग्यत्वेनात्यन्तनिगूहनीयत्वं द्योत्सते। व्यपदेशाधाजात् । अर्थ इव द्रव्यमिव । अराजके। एवं च नायकस्य धनाध्यत्वं ध्वन्यते। पक्षे लुण्ठनमीतिरावेद्यते । भोग्यः । नायिका चेयं परकीया ॥
बह्वपराद्धं त्वयेति नायिका वक्तीति सखीवचनमाकर्ण्य खयमेव कश्चिनायिकां वक्ति
अश्रौषीरपराधान्मम तथ्यं कथय मन्मुखं वीक्ष्य ।
अभिधीयते न किं यदि न मानचौराननः कितवः ॥ २८॥ अश्रौषीरिति । ममापराधानश्रौषीः। एवं चापराधेषु चाक्षुषविषयत्वाभावो व्यज्यते। तेन नियतमपराद्धमनेनेति निश्चयकरणमनुचितमिति । इदं तथ्यमिति सोल्लुण्ठवचनम् । मन्मुखं वीक्ष्य कथय । एवं च मुखदर्शनोत्तरमनया न किंचिद्वक्तुं शक्यमिति भावः । यद्वा सत्यं कथयेति योजना। एवं च बहवोऽपराधास्त्वया श्रुतास्तन्मध्ये यः सत्यत्वेन निर्णीतस्तमेव मत्समक्ष वदेत्यर्थः । मीयापराधास्त्वया श्रुताः, इदं मत्समक्षं तथ्यं वदेति वार्थः । नायिका वक्ति । यदि कितवो पूर्वस्वम् । एवं च चौरसाहचर्य नियतमिति द्योत्पते। मानस चौररूपमाननं यस्य स नस्सात्तदा के नाभिधीयते। एवं च त्वदर्भने न मया किमपि वक्तुं शक्यमिति चन्यते। पदाभिधीयते न किमित्यादि सखीवचनम् ॥