________________
पक्षे सा विपरीता या गतिर्गमनं तामिच्छन्त्यः । विफलश्रमाः। खनिष्ठतदासतेईरीकर्तुमशक्यत्वादिति भावः । पक्षे प्रतिलोमजलागमनाभावादिति भावः । हास्या निन्द्रायोग्याः । पक्ष उपहासयोग्याः । न केवलं निरर्थकम् । अपि तु दुरर्थकत्वमिति भावः । एवं च निम्नानुरूपगतिखभावस्य प्रवाहस्य विपरीतगतिरिवान्यनायिकासकनायकस्यान्यत्रासक्तिरसंभाविनीति द्योत्यते । नायिका चेयं गर्विता। यद्वा खीया परकीयां निन्दति । एवं च खकान्तासक्तिः खाभाविकीति भावः । अथवान्यनाविकासकं खनायकं कथं न खाधीनतामाजनं करोषीति वादिनी सखी काचिद्वति । एवं च यथा नीचानुगामिनः प्रवाहस्य परावृत्तिरशक्या तद्वत्परागनालम्पटनायकस्येति ध्वन्यते ॥ नायिकाविरहातिशयं सखी नायकं वक्ति
अधिकः सर्वेभ्यो यः प्रियः प्रियेभ्यो हृदि स्थितः सन्तम् ।
स लुठति विरहे जीवः कण्ठेऽस्यास्त्वमिव संभोगे ॥ २५॥ अधिक इति । सर्वेभ्य एकादशेन्द्रियेभ्यः पञ्चप्राणेभ्यः पञ्चभूतेभ्यश्च योऽधिकः । संघातरूपत्वेनेति भावः । वस्तुतस्त्वेतदतिरिक्त इत्यर्थः । प्रियेभ्यो रूपादिविषयेभ्यः प्रियः । निरुपाधिकप्रेमास्पदत्वादिति भावः । पक्षे सर्वेभ्यः सुहृयोऽधिकः । यद्वा सर्वेभ्यः प्रियेभ्योऽधिकः प्रिय इति योजना। सततं हृदि स्थितः । हृदयस्थानत्वाजीवस्येति भावः । पक्षे सर्वदा चिन्तनीयत्वेनेति भावः । संभोगे त्वमिव त्वद्विरहे स जीवः । अस्या इति प्रत्यक्षवनिर्देशः खसंनिधिवर्तित्वेन खाधीनत्वं व्यनक्ति । कण्ठे लुठति । एवं च त्वदर्शनविरहेऽस्याः प्राणप्रयाणमचिरादेव भविष्यतीति द्योत्यते । यद्वा पुनदर्शने मा विलम्ब कृथा इति नायिकासखी नायकं वति । यथैतत्कालीनसंभोगे त्वमेतस्याः कण्ठे लुठसि तथा त्वद्विरहे जाते सति जीवो लुठति । लुठिष्यतीति भावः। एवं च यथा न त्वद्विरहोऽस्या भविता तथा विधेयमिति प्रार्थना ध्वन्यते ॥
सर्वदा पराङ्गनासक्तमप्येनं मावमानय, यत इतोऽयं गमिष्यतीति वादिनी सखी काचिनायिका वकि
बनयनपथे प्रिये व व्यथा यथा दृश्य एव दुष्यापे।
म्लानव केवलं निशि तपनशिला वासरे ज्वलति ॥ २६ ॥ बनयनेति । प्रिये कान्वेऽनयनपथे। विदेशमा इलः । तथा व व्यथा यथा