________________
आर्यासप्तशती ।
33
कृतरतिलज्जासाध्वसां नवोढां नायिकां प्रलोभयितुं कस्याश्चिद्वार्ता सखी वक्तिअलमविषयभयलज्जावञ्चितमात्मानमियमियत्समयम् ।
नवपरिचितदयितगुणा शोचति नालपति शयनसखीः ॥ २२ ॥ अलमिति । नवपरिचितदयितगुणा । नूतनविज्ञातदयितरतिसुखेत्यर्थः । इयं त्वत्प्रतिवेशिन्येतावत्कालमस्थानलज्जाभयाभ्यां वञ्चितम् । एवं चात्र न लज्जा न वा भीतिरिति भावः । आत्मानमलमत्यर्थ शोचति । यद्वालमिति वञ्चितमित्यत्रान्वेति । एतावत्कालं वृथा स्थितमिति धियेति भावः | शयनसखीर्नालपति । अतिनिकटवतिनीभिरेताभिः कथं नाहमीदृशं सुखमस्त्यत्रेति बलादवबोधितेति क्रोधादिति भावः । यद्वाग्रेऽपि कदाचिदेताभिर्यानविधानं शिक्षणीयमिति भावः । एवं च तवाप्यग्र एवमेव भविष्यतीत्यतोऽधुनास्मद्वचनेन लज्जाभयादि परित्यज्य प्रिय - संनिधौ गच्छेति ध्वन्यते ॥
नायकं प्रति नायिकाविरहं सखी वक्ति
अनुरागवर्तिना तव विरहेणोग्रेण सा गृहीताङ्गी । त्रिपुररिपुणेव गौरी वरतनुरर्घावशिष्टैव ॥ २३ ॥
1
I
अनुरागेति । अनुरागाधीनेन । एवं चानुरागाधिक्ये विरहाधिक्यमिति ध्वन्यते । पक्षेऽनुरागेण प्रीत्या वर्तते । एवं च सर्वदा प्रीतिजनककार्यकारित्वं ध्वन्यते । उग्रेण । एवं चासह्यत्वं ध्वन्यते । पक्ष उग्रनाम्ना । तव विरहेण गृहीताङ्गी व्याप्ताङ्गी।पक्षे स्वस्वरूपकृताङ्गी । त्रिपुररिपुणा महादेवेन । पक्षे स्वर्गमृत्युपातालवैरिणा । एवं च तव विरहे क्वापि न तस्याः सुखमिति व्यज्यते । गौरी पार्वतीव । पक्षे विरहपाण्डुरवर्णवती । वरतनुर्नायिका । एवं चावश्यप्राह्यदर्शनयोग्यत्वं व्यज्यते । अर्धावशिष्टैव । विरहक्षीणत्वादिति भावः । पक्षेऽर्धनारीश्वरत्वादिति भावः । एवं च त्वत्संगमविलम्बे तस्याः प्राणविश्लेष एव भविष्यतीति द्योत्यते ॥ काचिन्नायिका स्वात्यन्तासक्तनायकेच्छावदन्यनायिका उपहसतिअन्यप्रवणे प्रेयसि विपरीते स्रोतसीव विहितास्थाः ।
1
तद्गतिमिच्छन्त्यः सखि भवन्ति विफलश्रमा हास्याः ॥ २४ ॥ अन्येति । विपरीते निम्नानुगामिनि । स्रोतसीव प्रवाह इव । अन्यप्रवणेऽन्यासके नायके विहितास्थाः कृतासक्तयः तद्गतिं तदासक्तिम् । खस्मिन्निति भावः । ३ आ० स०