________________
३२
काव्यमाला।
षणम् । 'रक्तोत्पलं कोकनदम्' इत्यमरः । उन्मीलय । ते सुप्रभातं भवतु । एवं च सुरात्रस्य जातत्वादेतावन्मात्रमाशास्यमिति भावः । एवं च यया रीत्या रात्रिरतिवाहिता तयैव रीत्या दिनमप्यतिवाहनीयमिति परिहासो व्यज्यते ॥
कश्चिदसमय एव रतमर्थयमानः कयाचिनायिकया रतचिह्नोत्पत्तिमिया तदीयप्रेमहठाभ्यां केवलमालिङ्गितस्तवृत्तान्तं स्ववयस्यं प्रत्याह
अमिलितवदनमपीडितवक्षोरुहमतिविदूरजघनोरु ।
शपथशतेन भुजाभ्यां केवलमालिङ्गितोऽस्मि तया ॥ २०॥ अमिलितेति । असंयुक्तवदनम् । ताम्बूलरागापगमभीत्येति भावः । अपीडितवक्षोरुहम् । चन्दनप्रच्यवभीयेति भावः। अपीडितमित्यनेन किंचित्कुचसंबन्धो वृत्त इति व्यज्यते । तेन कुचयोरत्यन्तोनतत्वम् । अतिविदूरजघनोरु । काच्यादिविन्यासान्यथाभावसंभावनयेति भावः । एतानि क्रियाविशेषणानि । तया केवलं शपथशतेन । एवं च केवलपदेनालिङ्गनेऽन्यप्रबलहेत्वभावो द्योत्यते । शपथपदेनापरिहार्यत्वम् । शतपदेन खाग्रहबाहुल्यम् । यत्तु केवलमालिङ्गितोऽस्मीति व्याख्यानं तदमिलितवदनमित्यादिनैव चुम्बनाद्यभावप्रतीतो केवलपदानतिप्रयोजनत्वसंपादकतया केवलमकिंचित्करमाभाति । अत एव केवलं भुजाभ्यामित्यपास्तम् । भुजाभ्यामालिङ्गितोऽस्मि । यद्वा कश्चित्किंचिद्भममानवत्या वृत्तं वक्ति । यदि मयापराधः कृतः स्यात्तदायमयं शपथ इति शपथशतेन । अथवा विस्रब्धनवोढावृत्तं कश्चिद्वति ॥ कश्चित्कांचिद्वक्ति
अतिपूजिततारेयं दृष्टिः श्रुतिलचनक्षमा सुतनु ।
जिनसिद्धान्तस्थितिरिव सवासना कं न मोहयति ॥ २१ ॥ अतीति । हे सुतनु । अतिपूजिता । श्रेष्टेति यावत् । तारा नेत्रकनीनिका । पक्षेऽत्यन्तपूजिता ताराख्या देवता यत्र । श्रुतेः कर्णस्योल्लङ्घनसमर्था । अत्यन्तवि
शालत्वादिति भावः । पक्षे वेदोदीरितार्थाननुष्ठानकारिणीत्यर्थः । सवासनाभिप्रायविशेषशालिनी । कज्जलादिसंस्कारवतीति केचित् । पक्षे तन्मतसिद्धक्षणिकपदाथैकरूपकुबुद्धद्युत्पादकहेतुमती । जिनसिद्धान्तस्थितिरिव कं न मोहयति । अपि तु सर्वमपीति भावः । यद्वा सखीवचनमेतत् ॥