________________
आर्यासप्तशती।
वार्तेति भावः । अथ च प्रकटीकृतगुणानामेव सार्थक्यम्, न त्वन्तर्गतानामिति भावः । यद्वा दूती नायकान्तरसंयोजनाय नायिका वकि। अन्तर्गतानेककामकलाभिः । त्वदीयाभिरिति भावः । यत्र येषु गुणेषु द्वित्रा अपि । एवं च बहूनां का वार्तेति भावः । साक्षिणो विरलाः । गीतिरिव गीतिस्त्वत्प्रतिवेशिनी । तखाः स गुणो यदसौ वनेचरं हरिणमपि हरति । एवं च तस्या एव कलाकलापः सार्थकः । याज्ञमपि रञ्जयति । एवं च त्वया खगुणाः परपुरुषसंगतिमन्तरानर्थका न विधेया इति ध्वन्यते॥ नायिकासखी सपत्नीसखी प्रति वकि
अललितसकलविभूषां प्रातर्बालां विलोक्य मुदितं प्राक् ।
प्रियशिरसि वीक्ष्य यावकमथ निःश्वसितं सपत्नीभिः ॥१८॥ अलुलितेति । यथास्थितसकलभूषणम् । एवं च संभोगेऽवश्यं कस्यचिद्भूषणसोपमर्दः संजात एव स्यात् , तस्मान सुरतं संजातमिति भावः । बालाम् । एवं च यौवनशालित्वेन द्वेषयोग्यत्वं प्रियस्य प्रीतियोग्यत्वं च ध्वन्यते । प्रातः । एवं च सुरताभावनिर्णययोग्यत्वं ध्वन्यते । विलोक्य । एवं च सम्यतया संभोगरहित्यनिर्णयवत्ता ध्वन्यते । सपत्नीभिः । एवं च द्वेषशालित्वं व्यज्यते। बहुवचनेन सर्वासामैकमसे नायिकायामुत्कर्षातिशयो ध्वन्यते । प्रान् मुदितम् । संभोगविरहेण प्रिममराहित्यनिर्णयेनेति भावः । अथानन्तरं प्रियमस्तके यावकमलक्तकं वीक्ष्य निःश्वसितम् । प्रियप्रणामादिनापि नानया मानः परित्यक्त इति महत्सौभाग्यमस्या इत्यसूयया दुःखोद्रेकादिति भावः ॥ रात्रौ रतिसदने गमनेऽतिलजां नाटयन्ती नायिकां सखी प्रातर्वकि
अयि लज्जावति निर्भरनिशीथरतनिःसहागि सुखसुप्ते ।
लोचनकोकनदच्छदमुन्मीलय सुप्रभातं ते ॥ १९ ॥ अवीति । अयि लजावति । विपरीतलक्षणया लज्जाशून्ये । अत एव निर्भरमतिशयशालि निशीथे मध्यरात्रे । एवं च प्रातर्निद्राजननयोग्यत्वं द्योलते । यद्वतं वेन सालसाजि सुखसुप्ते । एवं च क्लेशेन निद्रितं मयेति प्रतारणं कर्तुमशक्यमिति शान्यते । लोचनकोकनदच्छदम् । जागरशोणत्वात्कोकनदुत्वेन निरूपणम् । अत्र च्छदपदमनुचितमित्याभाति, विकसनस्योत्पलधर्मत्वात् । वस्तुतस्तु गोलके कोकनदत्वारोपः । पक्ष्मयुक्तप्रदेशयोदलत्वारोपः । उन्मीलनं च विश्लेष इति न किंचिर