________________
३०
कानमारा।
घोलते। पझे वैचित्त्याय । पतिता । एवं च दैववशादेतादृशं कार्य तया कृतम्, त्वं चैतादृशाचरणशालीति दुःखातिशयो ध्वन्यते॥
कस्पाश्चित्सविधे कस्यचित्तरुणमहाजनस्य गमनसंभावनयान्यतरुणविरतावप्यतिजरद्वयोभिः सा भुज्यत इति कश्चित्कंचित्प्रत्याह
अयि मुग्धगन्धसिन्धुरशङ्कामात्रेण दन्तिनो दलिताः।
उपभुञ्जते करेणूः केवलमिह मत्कुणाः करिणः ॥ १५ ॥ अयीति । अयि । मुग्धः सुन्दरो यो गन्धगजः । यद्गन्धमात्रादेव गजाः पलायन्ते स गन्धगजः तच्छङ्कामात्रेण । न तु दर्शनादिनेति भावः । दन्तयुक्ता गजा दलिता भमाः । पलायिता इत्यर्थः । मत्कुणा दन्तरहिताः करिणः केवलं करेणूहस्तिनीरुपभुजते ॥ बहिः कृत्रिमातिशयलज्जावत्त्वेऽप्यत्यन्तदुष्टेयमिति काचित्कांचित्प्रति वक्ति
अतिविनयवामनतनुर्विलते गेहदेहली न वधूः ।
अस्याः पुनरारमटी कुसुम्भवाटी विजानाति ॥ १६ ॥ अतीति । अत्यन्तविनयेन वामनवत्तनुर्यस्याः। एवं च त्रिविक्रमावतारकर्मकरणसामर्थ्यमभिव्यज्यते । वधूगेंहदेहली न लङ्घते । एवं च लबातिशयः सूच्यते । अस्याः पुनरारभटीं प्रौढिविशेषं कुसुम्भवाटी विजानाति । तत्रैतसा निर्लजत्वं द्रष्टव्यमिति भावः । एवं च सदन एवं विनयं प्रदर्य गुर्वा दिवचनेन कुसुम्भवाव्यां के कं न परपुरुषमुपभुत इति ध्वन्यते । यद्वा न केवलमेतस्या लज्जावत्त्वदर्शनमात्रेण भवद्भिर्विश्वसितव्यमिति ध्वन्यते ॥ पररजकगुणानामेव गुणत्वम् , न त्वरजकानामित्याह
अन्तर्गतैर्गुणैः किं द्वित्रा अपि यत्र साक्षिणो विरलाः ।
स गुणो गीतेर्यदसौ वनेचरं हरिणमपि हरति ॥ १७ ॥ अन्तरिति । येषु द्वित्रा अपि साक्षिणो विरलाः । एवं च बहुसाक्षित्वेऽत्यन्तप्राशस्त्यमिति भावः । तैरन्तर्गतै रजनासमथैर्गुणैः किम् । न किंचित्कलमिति भावः । गीतेः स गुणः । एवं च गुणे गुणानजीकारेऽपि पररजकतया गीवेरपि गुणवत्ताव्यवहार इति भावः । यदसौ वनेवरम् । एवं च प्रामसंबन्धाभावेन मधुरशन्दरसानमिवत्वं ध्वन्यते । हरिणमपि । एवं च मनुष्याणां का वार्वेति भावः । हरति खाधीनताभाजनं करोति । यद्वा वनेचरमपि । एवं च नागरिकस्य का