________________
आर्यासप्तशती।
ध्वन्यते । सतिमिरमिव तिमिराख्यदोषदूषितमिव । न लक्षयति । सप्रकार न वेत्तीति किं वाच्यमिति भावः । एवं च सारखतचक्षुषोऽप्येतादृशी गतिः, तत्र का वार्ता तवेति भावः । एवं चासतीलोचनव्यक्तीकृतमपि न ज्ञातुं शक्यम्, तत्र का वार्ता तचित्तगतमिति ध्वन्यते । यद्वा केवलं पण्डितं कटाक्षयन्तीमसतीमालोक्य तं प्रति काचिदन्या वक्ति । सारखतं ज्ञानरूपं चक्षुस्तं न लक्षयत्सपि । एवं च याथातथ्येन खरूपपरिचितिर्दूरापास्तेति भावः । एवं च कटाक्षितमपि न खया ज्ञायते । इत्यन्तर्जडत्वेन सर्वमपि त्वदीयाध्ययनमसत्कल्पमिति ध्वन्यते ॥ नायकदुर्वादकुपितां नायिका सखी समाधत्ते
अन्यमुखे दुर्वादो यः प्रियवदने स एव परिहासः ।
इतरेन्धनजन्मा यो धूमः सोऽगुरुभवो धूपः ॥ १३ ॥ अन्येति । अन्यस्याप्रियस्य मुखे यो दुर्वादो दुर्वचनम् । प्रियस्य दयितस्य मुखे स एव दुर्वाद एव । स एवेत्यनेनान्यूनानतिरिक्तत्वं वन्यते । परिहासः सनिन्दरजकं वाक्यम् । अत्र दृष्टान्तमाह-अगुरुभिन्नेन्धनजन्मा यो धूमः स रूपान्तरापन्नोऽगुरुसंभवो धूपः । एवं चायं न दौष्ट्येन वदति, किं तु कुतुकेन । नातः कोपो विधेयस्त्वयेति ध्वन्यते । यद्वा साधारणोक्तिरियम् । अत्रैव विपरीतयोजनयाप्रियवदनविनिःसृतवचनं समीचीनमप्यसमीचीनमेवेति व्यज्यते । एवं च प्रेम्णो मुख्यत्वमावेद्यते । कथमेतदीयतादृशवचनमाकर्ण्य तूष्णीं स्थीयते त्वयेति वादिनी सखी नायिका समाधत्त इति वार्थः ॥ दुष्टखभावं नायकं नायिकासखी वक्ति
अयि सुभग कुतुकतरला विचरन्ती सौरभानुसारेण ।
त्वयि मोहाय वराकी पतिता मधुपीव विषकुसुमे ॥ १४ ॥ अयीति । सुषु भाग्यं यस्य तत्संबुद्धिः । कथमन्यथैतादृशी नायिका त्वय्यासक्तेति भावः । कुतुकार्थम् । न तु लोभार्थमिति भावः । तरला । सुभगस्य कुतुकेन तरला । सौरभं समधिकगुणवानिति कीर्तिः । तदनुसारेण विचरन्ती । एवं च त्वत्खभावस्य न तात्त्विकं ज्ञानं तस्या इति भावः । यद्वा सौरभानुसारेण खकीतिसंरक्षणपुरःसरं विचरन्ती । पक्षे सै गन्ध्यानुसारेण । विषकुसुमे । कुसुमपदेनावश्यफलजनकतायोग्यत्वं ध्वन्यते । मधुपीव । एवं च ज्ञानशून्यत्वं व्यज्यते । त्वयि वराकी । एवं च सरलत्वं ध्वन्यते । मोहाय दुःखाय । एवं चान्यफलाभावो