________________
काव्यमाला।
दूती नायिकाप्रेमातिशयं नायके वति
अगणितमहिमा लचितगुरुरषनेहः स्तनधयविरोधी ।
इष्टाकीर्तिस्तस्यास्त्वयि रागः प्राणनिरपेक्षः ॥ १० ॥ अगणितेति । अगणितो महिमा कुलप्रतिष्ठा येन । महिमपदेनावश्यस्पृहणीयत्वं व्यज्यते । लहितो गुरुः श्वशुरादिर्येन । तनिषेधतिरस्कारादिति भावः । न विद्यते धनेच्छा यस्य । स्तनंधयोऽत्यन्तबालः । एवं चातिस्नेहाईत्वं ध्वन्यते । तद्विरोधी । प्रसवोत्तरमचिरात्संभोगे स्तन्यहानिर्भवतीति लौकिकम् । इष्टेच्छाविषयीभूताकीर्तिर्यस्य । एवं चाकीर्तिमीतिशून्यत्वं ध्वन्यते । एतादृक्तस्यास्त्वयि रागः । प्राणनिरपेक्षः प्राणापेक्षाशन्यः । एवं चातिशयशालित्वं व्यज्यते॥ कृतापराधं समाधानायारब्धकपटं नायक नायिका वक्ति
अपराधादधिकं मां व्यथयति तव कपटवचनरचनेयम् ।
शस्त्राघातो न तथा सूचीव्यपवेदना याहा ॥ ११ ॥ अपराधादिति । अपराधादन्याङ्गनासंगमरूपात् । त्वद्वेषणार्थमेव तत्र गतमित्यादिकपटवचनरचना मामधिकं व्यथयति । एवं च सत्यभाषित्वेऽपराधोऽपि क्षन्तुमर्ह इत्यावेद्यते । महतोऽपराधस्य नात्यन्तदुःखदत्वम्, अल्पायाः कपटवचनरचनायाः कथमत्यन्तदुःखदत्वमित्यत्र दृष्टान्तमाह-शस्त्राघातः।आघातपदेनासह्यत्वं व्यज्यते । न तथा व्यथयति यथा सूच्या व्यधः सीवनं तद्दुःखम् । एवं च सूचीकृतत्वेन नाल्पत्वमाशयमिति भावः । यद्वा साधारण्येनोक्तिरियम् ॥
कयोश्चिद्गच्छतोरसतीकटाक्षितमेकं दृष्ट्वा परेण 'ज्ञातं सर्वमिदं मया' इन्युदीरेते 'न किंचित्त्वया ज्ञातुं शक्यम्' इत्यपरस्तं प्रत्याह
असतीलोचनमुकुरे किमपि प्रतिफलति यन्मनोवर्ति ।
सारखतमपि चक्षुः सतिमिरमिव तन्न लक्षयति ॥ १२ ॥ असतीति । असत्या लोचयति तल्लोचनम् । एवं चेतस्ततः प्रसरणशीलत्वं वन्यते । तद्रूपमुकुरे । मुकुरपदेन मङ्गलरवेनावश्यदर्शनीयत्वं व्यज्यते । किमप्यनिर्वचनीयम् । मनोवति । असत्या एवेति भावः । यद्वा किमपि न लक्षयतीति योजना । मनोवतीत्यनेनातिसूक्ष्मत्वम् । तेन च बहिः स्फुटीभावानर्हवं द्योत्यते । यत्प्रतिफलति तत्सारखतमपि चक्षुः । सरखतीयत्वेनातीतागतवस्तुग्रहणयोग्यत्वं